________________
महामन्त्रवाद्यको निजमित्रमण्डलीपरिवृतः समागतस्तं प्रदेशं, पश्यति च सर्वतो निःसञ्चारमेनं, पप्रच्छ च तत्प्रत्यन्तवर्त्तिनं कमपि लोक-किं कारणमयं प्रदेश इत्थं निःसंचारो वीक्ष्यते ?. तेनोक्तं-अस्त्यत्रैको महादृष्टिविषो दन्दशूकः, तदृष्टेश्च द्वादश योजनानि विषयः, ततोऽनेन दवदग्धारण्यतुल्ये कृतेऽस्मिन् प्रदेशे मरणभयेन न कोऽपि संचरति, किं बहुना ?, चटकादिभिरपि खजीवितरिरक्षिषया परिहृतोऽयं देशः, तेनोक्तं यद्येवं समस्ति मे गुरुपरम्परागत एको गारुडमन्त्रः तन्महात्म्यान्निरोधयाम्यहमेतावन्तमस्य दृष्टिविषयं ततो गत्वा सर्पसमीपदेशमसौ निरुरोध तद्विषयं, द्वादशयोजनप्रमाणस्यास्य चकार योजनमात्रां सीमां, ततोऽपि सक्षिप्य परिमितां परिमिततरां तावद् यावद् दृष्टिसमासन्नाङ्गुलादिमानामिति, उपनयस्तु पूर्ववदेव स्वबुद्ध्या कार्य इति ॥ भेदद्वारे गाथा
संवच्छराइगहियं पभायसमए पुणोऽवि संखिवइ ।
राओ तंपिय नियमइ भेएण विसिट्टतरमेव ।। १०३ ॥ संवत्सरो-वर्ष आदि:-पूर्वो यस्य कालावधेः स संवत्सरादिस्तेन गृहीतम्-उपात्तं संवत्सरादिगृहीतं, आदिशब्दाच्चतुर्मासिकादिग्रहः, : प्रभातसमये ' विभातकाले यद् दिक्परिमाणमिति शेषः, 'पुनरपि । भूयोऽपि 'संक्षि
M
Jain Education Intel
For Private & Personel Use Only
Alww.jainelibrary.org