________________
गा.१०१
श्रीनववृहः । योऽप्येन श्वशृगालादिर्भक्षयिष्यति सोऽपि विषीभाविष्यति, एवंच शततमस्थानमप्यतद्वेधयतीति महाविषमेतत्, ततो स्वरूपद्वार
वृत्ती देशावका- राज्ञोक्तं-अहो भिषग्वर ! एवंविधमहाविषस्यास्यास्ति कश्चित्प्रतीकारः ?, भिषजोदितं देव ! अस्ति, प्रतीत्युत्पादशिके.
तेः पुनर्भणितं वैद्यन--देव ! समानारयतामन्यो बलिष्ठशरीरः कश्चिन्महास्तम्बरमः, कृतं तहचस्तथैव ॥ २६४ ॥ भूपालेन, वैयेनापि तथैव संचारितं विषं, तत्क्षणमेव चरितं विषं सर्वस्मिन्नपि तदेहे, ततस्तत्कालमव नियोजित
स्तत्रैव देशेऽगदः, तेन चोत्सार्यानीतं विषमेकस्मिन् पादे, ततोऽपि पादाङ्गुष्ठे, ततोऽपि तदग्र इति, ततस्तुष्टो राजा कृतवान् महाप्रसादं वैद्यस्य, सोऽपि तदनुभावेन संपन्न ऐहलौकिकसुखाभागी, एवं श्रावकोऽपि दिग्व्रतेन योजनशतादिक्षेत्रमानमवगृहीतवान्, देशावकाशिकेन तु तदेव सङ्क्षिप्य गव्यूतादिमानं चकार, ततोऽपि वा गृहदेहलीमर्याद
मिति, अत्र च गजदेहतुल्यं दिग्व्रतमितिक्षेत्रं, विषचरणसमं त्वत्र श्रावकस्य गमनागमनादि, अगदसदृशं तु देशानवकाशिकं, तेन तद्विषयं बहु बहुतरं निरुणद्धि ॥ दृष्टिविषसोदाहरणं यथा--कस्मिंश्चिदरण्ये दृष्टिविषसर्पः प्रतिव
सति स्म, तद्दष्टेश्च महाविषत्वाद् द्वादश योजनानि विषयोऽभूत्ततोऽनेन द्वादशयोजनप्रमाणायां भूमौ यः कोऽपि । कपोतिकादिः खचरः शशकादिः स्थलचरः स सर्वोऽपि विनाशितः, ततस्तेन पथा चटकोऽपि न संचरति, अन्यदा
|॥२६४
Join Education International
For Private & Personal Use Only
www.jainelibrary.org