SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ तत्सङ्क्षेपस्यैवात्र सूत्रकृता देशावकाशिकत्वविवक्षणात, " सव्ववयाणं संखेवकरणं देसावगासियं " ति वचनप्रामाण्याद् , अत्रैव निदर्शनमाह- जह विसपन्नगदिट्ठी संखिबई वाइओ कोऽवि' ति यथा यद्दहिषं च-गरलं 'पन्नगदृष्टिश्च' सर्पदृक् ते 'साडिपति' सङ्कोचयति 'वातिकः' मन्त्रवादी स्थावरजङ्गमविषप्रतिकर्ता कोऽपि । अनि|र्दिष्टनामेति गाथार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-कश्चिद्राजा प्रतिपक्षमहाबलनपतिभयेन खदेशवर्ति जलयवसादि विनिनाशयिषया निजमण्डले विषकरं पातितवान् , ततश्च कोऽपि पलदशकं कोऽपि पलविंशति कोऽपि पलपञ्चाशतं कोऽपि पलशतं विषस्यानीतवान् , अन्यश्च राज्ञ एव वैद्यः स यवमात्रं विषमुपादाय राज्ञः समर्पितवान् , रुष्टो राजा तन्मात्रार्पणेन, इङ्गिताकारकुशलेन च वैद्येन सरोषं नरेन्द्रमवगम्य । भणितं, यथा-देव ! महाविषमेतद् , यवमात्रेणाप्यनेन भारशतानि भवन्ति, यतः शतवेध्येतद् ,राज्ञोक्तं-कः प्रत्ययः?, वैयेनोक्तम्-आनाय्यतां कश्चिन्मुमूर्षुर्गजः, ततस्तद्वचनानन्तरमेवानायितो भूपेनैको जराजर्जरो रोगविधुरो महाकरी, नोटयित्वा तत्पुच्छवालं दत्तं तत्स्थाने नखाग्रेण विषं वालाग्रमात्रं वैद्येन, तत्क्षणमेव समस्तशरीरे संचरितं विषं पतितो निश्चेष्टो हस्ती, जातो नीलीरागरञ्जित इवातिनीलवर्णः भाणतं वैद्येन-देव! एष सर्वोऽपि संपन्नो विषरूपो, Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy