________________
सामायिकशावकाशि| कस्वरूपं
श्रीनवबृहः मिति गम्यते 'त्रिविधं, करणकारणानुमतिभेदं त्रिविधेन, मनसा वाचा कायेन, नवविधमिति तात्पर्य
वृत्ती देशावका- Aवर्जितं ' परिहृतं यैः सुसाधुभिः, किं परिमितमेव कालं ?, नेत्याह-यावज्जीवं' यावदिति मर्यादायां शिके.
यावज्जीवनं यावज्जीवं, चरमोच्छासं यावदित्यर्थः, तेषां सुविहितानां ' नमामि ' प्रणिपतामि ‘भक्त्या' अन्तःप्रीत्या, न तूपरोधादिना, बहुमानपुरस्सरमिति योऽर्थः, ' क्रमकमलं ' पादपङ्कजमिति गाथार्थः ॥ उक्तं सामायिकं नवभेदं, सम्प्रति देशावकाशिकस्यावसरः, तदप्येतैरेव नवहारैरभिधेयमिति प्रथमद्वारेण तावदाह
देसावगासियं पुण संखेवो जस्स पुव्वगहियस्स ।।
जह विसपन्नगदिट्ठी संखिवई वाइओ कोई ॥ १०२ ॥ __ पूर्वगृहीतप्राणातिपातादिव्रतपरिमाणैकदेशो देशस्तस्मिन्नवकाशः-अवस्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकं, पुनःशब्दः पूर्वोक्तापेक्षया, सामायिकं तावत् 'सावज्जजोगविरई, त्यादिगाथया स्वरूपतो निरूपितं, देशावकाशिकं तु किंरूपमित्याह-देशावकाशिकं पुनः, स्वरूपेण ज्ञेयमिति शेषः, यत्र किमित्याह-सक्षेपणं सक्षेपः सङ्कोच इतियावत् 'यत्र' यस्मिन् “पूर्वगृहीतस्य । प्रागपात्तस्य प्राणातिपातादिव्रतस्येत्यर्थाद्गम्यते.
Jan Education Internet
For Private
Personal use only