________________
इह यतनापरो धर्मध्यानोपगतादिविशेषणो भवतीति प्राग्भणनेन तत्त्ववृत्त्या मनःप्रभृतीनां सुप्रणिधानस्य विधेयत्वमुक्तं, दुष्पणिधाने तु का वार्त्तत्याह-मनोवचःकायानां दुष्प्रणिधानं पुनर्विवर्जयेच्छ्राद्धः, पुनःशब्दः प्रागुपात्तोऽप्यत्र योज्यते, भावना तु पातनिकयैव दर्शिता, न चैतदेव विवर्जयेत्, किन्त्वन्यदपि, तथा चाह-"सामाइयसइअकरणं "ति सामायिकस्मृत्यकरणमनवस्थितकरणं च चस्य गम्यमानत्वात्, ननु कुत एतद्विवर्जयेत् ? इत्याह-यत इति शेषो, यतोऽतिचार इति, अयं च प्रत्येकं योज्यते, यथा मनःप्रभृतीनां दुष्पणिधानमतिचारः, सामायि
कस्मृत्यकरणमतिचारोऽनवस्थितकरणं चातिचार इति, अनवस्थितकरणमपि सामायिकस्यैव, सान्निध्यादित्येवं योजनेति Mगाथार्थः ॥ अतिचारपदभावना चेयं-मनोदुष्प्रणिधानं नाम गृहादिगतसुकृतदुष्कृतचिन्तनारूपं, वागदुष्प्रणिधानं ।
तु असमंजसासत्यादिभाषणं, कायदुष्प्रणिधानमप्रत्युपेक्षिताप्रमार्जितस्थानकायनिवेशनं, एतानि च सामायिकस्थोऽपरित्यजन् सामायिकफलं न लभत एव, यदुक्तम्-" सामाइयंति काउं घरचिंतं जो उ चिंतए सडो । अट्टवसटोवगओ निरत्थयं तस्स सामइयं ॥ १॥ कडसामइओ पुट्विं बुद्धीए पेहिऊण भासेज्जा । सइ निरवजं वयणं अन्नह सामाइयं न भवे ॥२॥ अनिरिक्खियापमन्जिय थंडिल्ले ठाणमाइ सेवंतो । हिंसाभावेऽवि न सो कडसाम-11
Jain Education Helonal
For Private Personal Use Only
www.jainelibrary.org