________________
श्रीनवबृह
वृत्तौ | सामायिके
यतनाद्वार गा. ९८
॥२१॥
धर्मध्यानम्-आज्ञाचिन्तनादिरूपं तेनोपगतः-संगतो धर्मध्यानोपगतः, तथा जिता:-परिभूताः क्रोधादयःकोपप्रभृतयः कषाया उदयनिरोधोदितवैफल्यापादनाभ्यां येन स जितक्रोधादिः, पुनः कीदृश इत्याह-जितानीन्द्रियाणि येन स जितेन्द्रियः-वशीकृतस्पर्शनादिकरणः, स्पर्शादिषु शुभेतरेषु प्रीत्यप्रीतिरहित इति भावना, भूयः । किंविशिष्टः ?- धीरः, सात्त्विको देवादिविरचितोपसर्गक्षुधादिपरीषहाक्षोभ्य इतियावत्, बुद्धिर्वा धीस्तया राजत इति 'धीरः सावद्यानवद्यवस्तुपर्यालोचनया सावद्यपरिहारेण निरवद्यानुष्ठायीति तात्पर्य, तथा सुसाधवः-प्रधानयतयः आचार्यादयस्तेषां सम्बन्धि प्रेषणम्-आदेशः सुसाधुप्रेषणं तत्र रतः-आसक्तः सुसाधुप्रेषणरतः आचार्यादिवैयावृत्त्यकरणरत इति तात्पर्य, कः पुनरेवंभतगुणोपेतो भवति ? इत्याह- यतनापरः' प्रस्तावात्सामायिके गुरुलाघवालोचन-10 तत्तत्प्रवृत्तितन्निष्ठो 'भवति, जायते, कया? 'शक्त्या, सामर्थ्येन, अथवा कस्यां सत्यामित्याह-' शक्तौ । सामर्थे इत्यक्षराथः, समुदायार्थस्त्वयं-शक्तया हेतुभतया शक्तौ वा सत्यां प्रतिपन्नसामायिको धर्मध्यानोपगतादिविशेषणविशिष्टो यद्भवति सा सामायिकयतनेति गाथार्थः ॥ अतिचारहारमिदानीम्
मणवइकायाणं पुण दुप्पणिहाणं विवजए सट्टो। सामाइयसइअकरणमणवढियकरणमइयारो॥ ९९ ॥
Jain Education Interna
For Private & Personel Use Only
w.jainelibrary.org