________________
Jain Education Interna
जीर्णदेवगृहे तत्र, बहिस्तात् स व्यवस्थितः । दृष्टः पण्डितया धात्र्या, कथञ्चिदैवयोगतः ॥ ७३ ॥ कथितो देवदचायास्तयाऽवक्षिप्तचित्तया । कथञ्चित्स गृहं भिक्षादानव्याजात्प्रवेशितः ॥ ७४ ॥ द्वारं पिधाय गेहस्य, तत्रस्थं तं | महामुनिम् । उपसर्गितुमारेभे, हावभावैरनेकधा ॥ ७५ ॥ न चास्य चलितं चेतो, वर्यधैर्यशिरोमणेः । तैरनेकैरपि शृङ्ग, | मेरोवि महानिलैः ॥ ७६ ॥ ततो नीत्वा श्मशानेऽसौ विलक्षीभूतया तया । रजन्यामुज्झितो दृष्टो व्यन्तर्याऽभयया ततः ॥ ७७ ॥ तस्या अप्युपसगैरक्षुभितस्यास्य केवलं ज्ञानम् । सप्तमदिवसे जातं केवलमहिमा कृतो देवैः ॥ ७८ ॥ उपशमिता तेन ततो रागादीनां विपाककथनेन । सा व्यन्तरी सगणिका धात्री च विशिष्टचरितेन ॥ ७९ ॥ कालेन गतश्च शिवं विधाय निश्शेषकर्ममलविलयम् । सामायिकादचलितः सर्वावस्थासु दृढचित्तः ॥ ८० ॥ इति न | चलति यः स्थिराशयः, समभावाज्जिनशासने रतः । अधिरोहति सद्गुणावलीं, स श्राद्धोऽपि सुदर्शनो यथा ॥ १८९ ॥ इति सुदर्शनकथानकं समाप्तम् ॥ गतं गुणद्वारमधुना यतना निगद्यतेGara जियकोहाई जिइंदिओ धीरो । सुस्सा हुपेसणरओ जयणपरो होइ सत्तीए ॥ ९८ ॥
For Private & Personal Use Only
w.jainelibrary.org