________________
कुतूहलेन पप्रच्छ । निशि चरितं तमुवाच स नृपते ! किमतीतचरितेन ? ॥ ५० ॥ अत्याग्रहेण राज्ञो बभाण नरनाथ ! देहि यद्यभयम् । धाच्या अभयादेव्याः कञ्चुकिनां तदिह कथयामि ॥ ५१॥ राजोवाच श्रेष्ठिन् ! अयुक्तमेतत्तथाऽपि ते वचनम् । न विलध्यमतो दत्तं ब्रूहि त्वं सर्वमविकल्पम् ॥ ५२ ॥ भणितं ततोऽमुना नरपतिश्च देव्यां प्रकोपमापन्नः । उपशमितस्तेन पुनः संपन्नः श्रावको राजा ॥ ५३ ॥ राज्याईमस्मै वितरीतुमिष्टं,
राज्ञा न चेयेष कथञ्चिदेषः । संसारग द्विनिवृत्तचेताः, स केवलं खं प्रविमोच्य राज्ञः ॥ ५४॥ दीनादिVलोकाय वितीर्य दानं, विधाप्य पूजां च जिनालयेषु । स धर्मघोषाभिधसरिपाचे. जग्राह दीक्षां प्रियया समेतः ।
॥ ५५ ॥ अन्ये तु चारणश्रमणगमनानन्तरं कपिलावृत्तान्तवर्जमेतां कथां कथञ्चिदन्यथा कथयन्ति, यथाऽऽह श्रीवसुदेवसूरिः-अन्यदाऽत्यन्तरूपोऽसौ, राजमार्गेण लीलया । गच्छन् समन्वितो मित्रैः, राजदेव्याऽवलोकितः । ॥ ५६ ॥ पृष्टा चेटी यथा कोऽसौ, रूपनिर्जितमन्मथः। चेट्या समुद्रदत्तस्य, पुत्रोऽसाविति भाषितम् ॥ ५७ ॥ श्रावकः परमः ख्यातः, सञ्जयाऽसौ सुदर्शनः । ततः सातिशयं देवी, तदुपर्यनुरागिणी ॥ ५८ ॥ स्वधात्री प्राह मोहेन, मातस्त्वं शीघ्रमानय । एनं केनाप्युपायेन, नो चेन्मे नास्ति जीवितम् ॥ ५९॥ ततः सा प्रतिपद्यैवं, वर्य
Jain Education Inter
For Private
Personal Use Only
aaneiorary.org