________________
जार इति ॥ २८ ॥ शब्दश्रवणानन्तरमारक्षिजनाः सरोषमायाताः । कासाविति जल्पन्तो, ददृशुस्तं कुट्टयामासुः ॥ २९ ॥ ज्ञातस्तैश्च सुदर्शनोऽयमिति धिक् पृष्टः प्रविष्टः कथं ?, न ब्रूते नृपतेनिवेदितमसौ ब्रूते पुनः पृच्छतः । नो चेदानयतेह येन सकलं जानेऽहमुत्क्षिप्य तैरानीतश्च सविस्मयेन पठितं भूपेन वृत्तं नवम् ॥ ३० ॥ यदि किरति ।
कुकूलांश्चन्द्रमाः शीतवयिदि च हिमसमूहं दाहको दाववह्निः । यदि च सुरगिरीन्द्रः कम्पते निष्प्रकम्पो, ननु । Halजगति तदास्तां सर्ववस्तुष्वनास्था ॥ ३१ ॥ यतः-पृष्टोऽसावनुकूलचारुवचनैर्भूपेन भो ! भो ! भवान् , देव्या कि
प्रविवेशितोऽत्र ? यदिवा श्रेष्ठिन् ! प्रविष्टः स्वयम् ? । ग्राह्यं ते वचनं स्त्रियास्तु न मया सद्भावमावेदय प्रत्तं भद्र तवाभयं खलु मया चेत्सत्यमाभाषसे ॥ ३२ ॥ दण्ड्यन्ते निश्चितं सर्वे, देवीधात्रीमहल्लकाः । सत्योक्ताविति संचिन्त्य, मौनमास्थाय स स्थितः ॥ ३३ ॥ राज्ञोदितं ततो रोषात्, नन्वयं दम्भमाश्रितः । शूलाग्रे प्रोयतां पश्चा
दुष्टैनीतः पुराबहिः ॥ ३४ ॥ प्रवादश्च पुरे जातो, राज्ञा नाचरितं शुभम् । भाव्यमत्र विधानेन, नैवंकारी सुदर्शनः N||॥ ३५ ॥ इतश्च-तं वृत्तान्तं समाकर्ण्य, वज्रपातोपमं जनात् । भार्या मनोरमा तस्य, प्रलापानकरोत् बहून् ॥३६॥
तदन्ते पुष्पधूपायैः, पूजां कृत्वाऽर्हतः पराम् । कायोत्सर्गे स्थिता भक्त्या, चैत्यवन्दनपूर्वकम् ॥ ३७ ॥ क्षणादास
Iain Education Inter!
For Private
Personal Use Only
w.jainelibrary.org