________________
श्रीनव० बृह.
वृत्तौ सामायिके
॥ २५८ ॥
|तिमाप्रवेशकरणेन । कञ्चुकिनो विश्वास्य द्वित्रा वाराः कथञ्चिदपि ॥ १७ ॥ देवी यक्षप्रतिमाः किल पूजयतीति तेषु विश्वस्तम् । तिष्ठत्सु समानिन्ये तेनोपायेन सोऽपि तया ॥ १८ ॥ समर्पितोऽभयादेव्याः, साऽपि तं पुरतः | स्थितम् । कामार्त्ता हावभावाद्यैः क्षोभयितुं प्रचक्रमे ॥ १९ ॥ स्पर्शालिङ्गनचुम्बनपरापि न शशाक चलयितुं तं सा । धर्मध्यानारूढं महामुनिं वीतरागमिव ॥ १२० ॥ अत्रान्तरे - क्षोभयितुमसौ लग्ना बलेन न च मया प्रतीकारः । विहितोऽमुष्या इति लज्जयेव नाशं गता श्यामा ॥ २१ ॥ तथा - पश्य समस्तां रात्रिं स्थितोऽपि नाहं शशाक मोचयितुम् । अस्याः सत्पुरुषममुं त्रपये वास्तमित इन्दुरपि ॥ २२ ॥ सर्वामपि त्रियामां कदर्थितो ध्यानतो न यश्चलितः । दृश्योऽयमिति धियेवाऽऽरुरोह रविरुदयगिरिशिखरम् ॥ २३ ॥ ततश्च रात्रौ विविधोपायैरपि यावदसौ चचाल नो भावात् । प्रोक्तः पुनः प्रभाते मामनुरक्तां रमस्व विभो ! ॥ २४ ॥ सत्खाद्यपेयताम्बूलपुष्पवस्त्रादि सर्वमेवाहम् । सुन्दर ! दास्ये भवते, ज्ञास्यति न च कोऽपि राजादि ॥ २५ ॥ उक्तोऽप्येवं मौनं मुमोच न यदा तदाऽऽह रोषेण । | मामभ्युपैहि नो चेद्रक्ष्यसि यत्कारयिष्यामि ॥ २६ ॥ इतश्चनृपतिर्गेहमुद्यानात्समुपेयिवान् । तत् ज्ञात्वा यच्चकारैषा, तदिदानीं निबोधत ॥ २७ ॥ दम्भेन तया स्वयमेव कररुहैर्निजशरीरमुल्लिख्य । पूत्कृतं निर्घृणया यथा प्रविष्टोऽत्र
1
Jain Education International
For Private & Personal Use Only
सुदर्शन क थानक
।। २५८ ॥
www.jainelibrary.org