________________
Jain Education Intern
मेकत्र, राजाऽऽज्ञाऽन्यत्र दुर्घटम् ॥ ५ ॥ यतो जिनेन्द्रबिम्बानां चतुर्मासकपर्वणि । कार्या पूजा चतूरूपो; धार्यः शक्त्या च पौषधः ॥ ६ ॥ न चैतदुत्सवव्यग्रः कर्त्तुं शक्ष्यामि किञ्चन । मोचयामि तदात्मानं, पुरो गत्वा महीपतेः ॥ ७ ॥ ततोऽनर्थ्याणि रत्नानि, गृहीत्वाऽसौ सुदर्शनः । ददर्श नृपतिं तेन पृष्टस्तुष्टेन सादरम् ॥ ८ ॥ केनाअर्थेन त्वमायातस्ततोऽवादीत्सुदर्शनः । युष्मदाज्ञेह कार्त्तिक्या मुद्यानगमनं प्रति ॥ ९ ॥ अर्हत्पूजनमस्माकं कर्त्तव्यं पौषधस्तथा । तदत्र नापराधो न, उद्यानानागतावपि ॥ १० ॥ राज्ञोक्तं क्रियतां स्वेच्छया सर्वे, नापराधोऽस्ति ते कचित् । ततोऽर्हत्स्नात्र पूजादि, विधायासौ प्रयत्नवान् ॥ ११ ॥ चकार पौषधं धन्यः सर्वतः स चतुर्विधम् । अस्थादक्षोभ्यसत्त्वश्च प्रतिमां सार्वत्रिकीम् ॥ १२ ॥ इतो देव्या शिरोदुःखव्याजेनान्तः पुरस्थया । प्रोक्ता धात्री त्वया मेऽद्य, मेलनीयः सुदर्शनः || १३ || तयापारमथैक्षिष्ट, सा प्रतिपद्य तद्वचः । ईक्षाञ्चक्रे च तं कापि, रहसि प्रतिमागतम् ॥ १४ ॥ तदा च विच्छायक मलवदनां विलोक्य नलिनीं गतेऽस्तमिह मित्रे । दयिता वियोगशङ्की विरौति करुणस्वरं चक्रः ॥ १५ ॥ अपिच - दिशा प्रतीच्याऽङ्गनयेव तूर्णं, समुद्रपानीयजिघृक्षयाऽत्र । पर्यस्यते रश्मिनियन्त्रितोऽयं, दिवाकरः कुम्भ इवाम्बुराशौ ॥ १६ ॥ ततश्च - पूर्वं वस्त्राच्छादितयक्ष
For Private & Personal Use Only
ninelibrary.org