________________
॥२५७॥
भीनववहः । एवंविधार्थवैदग्ध्यं, ब्राह्मणीनां क्व वा भवेत् ?॥९२॥एवमाभाषितोवाच, साऽसूयागतमानसा । जाने तवापि पाण्डित्यमेनं उदर्शन कवृत्ती
थानक सामायिक कामयसे यदि ॥ ९३ ॥ साऽब्रवीन्निजबुद्धयाऽहं, कामयिष्ये न चेदमुम् । मरिष्यामि तदाऽवश्यं, प्रतिज्ञातमिदं मया । IN९४ ॥आकारिता ततो धात्री, स्वावासगतयाऽनया। पण्डिताख्या तदने च, स्वाभिप्रायः प्रकाशितः ॥९५॥तयाऽभाणि ।
त्वया पुत्रि! न सुन्दरमिदं कृतम्। अविज्ञायैव यत्तत्त्वं, प्रतिज्ञा महती कृता॥१६॥स महात्मा यतो वत्से!, मन्यते परयोषितम् । मातरं वा स्वसारं वा, तन्मुञ्चेमं कदाग्रहम् ॥९७ ॥ गृहीत्वा सा ततो रज्जं, बभाण कुरु पाशकम् । प्राणैः समं त्यजाम्येनमम्ब! येन कदाग्रहम् ॥ ९८ ॥ ततो ज्ञात्वाऽतिनिर्बन्धं, सैतस्या अनिवर्त्तकम् । बभाषे पुत्रि ! यद्येवं, पूरयामि तवेहितम् ॥ ९९ ॥ केवलं कतिचिद्वत्से !, दिनानि प्रतिपालय । यावदेति जनानन्दः, कौमुदीपरमोत्सवः
॥ १०० ॥ एवमाश्वासिता धाच्या गणयन्ती दिनान्यसौ । विवक्षितावधेराकष्टेनातिष्ठदुन्मनाः ॥१॥ अथ , क्रमेण संप्राप्ते, कौमुदीदिवसे मुदा । पटहं दापयामास, प्रातरेव महीपतिः ॥ २ ॥ यथा सान्तःपुरो राजा, क्रीडो
द्यानं गमिष्यति । ततः समस्तलोकेन, तत्रागम्यं निजश्रिया ॥३॥ यस्तु कार्यान्तरासक्तोऽवज्ञायाज्ञां महीपतेः। लवयिष्यति दण्ड्योऽसौ, दण्डेन महता किल ॥ ४ ॥ ततः सुदर्शनः श्रुत्वा, चिन्तयामास चेतसि । चतुर्मासक
Jain Education International
For Private
Personal Use Only