SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Jain Education In तत्राहूतः सुदर्शनः । कपिलश्च सपत्नीकोऽभयादेवीमनोरमाः ॥ ८० ॥ स्वस्वपरिवारवाहन समन्विताः सर्व एव संमिलिताः । तत्र सपुत्रां दृष्ट्वा मनोरमां कपिलया भणितम् ॥ ८१ ॥ सम्मुखमभयादेव्याः स्वामिनि ! समुपैति केयमिह देवी । सुरकुमरमिवोत्सङ्गे सुरूपमाबिभ्रती बालम् ॥ ८२ ॥ सच्छत्रचामरादिप्रवरविभूत्यन्विता स्वरूपेण । निर्जितसुरेन्द्ररामा रमणीयाभरणवेषधरा ॥ ८३ ॥ अभयादेव्या गदितं जाया सुदर्शनस्येयं, भद्रे ! नाम्ना मनोरमा योऽयमङ्कगतोऽमुष्या, सोऽनयोरेव पुत्रकः ॥ ८४ ॥ कपिलोवाच नो देवि !, श्रद्दधेऽहमिदं वचः । यतः सुदर्शनः षण्ढः, कथं पुत्रस्ततो भवेत् ? ॥ ८५ ॥ देव्योदितं कथं भद्रे ! भवत्येदमबुध्यत ? । ततोऽसौ कथयामास, स्ववृत्तान्तं यथास्थितम् ॥ ८६ ॥ हसित्वाऽभिदधे राज्ञी, मुग्धे ! त्वं विप्रतारिता । खदाररतिना तेन, परदारविवर्जिना ॥ ८७ ॥ तथाहि - रूपेण सूर्पकारातिर्यथाऽनेन पराजितः । तेजसा च दिवानाथो, वपुः कान्त्या निशाकरः ॥ ८८ ॥ गाम्भीर्येण चाम्भोधिः, स्थैर्येण गिरिनायकः । तथा कथं त्वयैतस्य षण्ढत्वं वद कल्पितम् ? ॥ ८९ ॥ एषाऽपि या त्वया दृष्टा, पत्न्येतस्य मनोरमा । नाम्ना न नाम सद्भूतैर्गुणैरपि मनोरमा ॥ ९० ॥ परपुरुषगन्धमिच्छति नेयं स्वमेऽपि | तेन संभाव्या । न सुदर्शनं विनाऽस्याः पुत्रोत्पत्तिः कदाचिदपि ॥ ९९ ॥ तस्माच्छठोत्तरेणैव त्वां चक्रेऽसौ निरुत्तराम् । For Private & Personal Use Only 154971563 www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy