________________
श्रीनव०बृह-
सामायिके
"
द्रुतमुत्पतितौ नभः ॥ ६७ ॥ ततः प्रभृति जातोऽसौ, स्थिरचित्तः सुदर्शनः । सुतरां धर्मकार्येषु, जग्राहाभिग्रहं सुदर्शन कतथा ॥ ६८ ॥ अष्टम्यां च चतुर्दश्यां पौर्णमास्यां सदैव हि । उद्दिष्टायां च कर्त्तव्यं, पौषधं प्रतिमायुतम् ॥ ६९॥
। थानकं तथा-कदा भागवती दीक्षां, प्रतिपद्य निराकुलः । निर्ममो विहरिष्यामीत्यभिलाषपरः स्थितः ॥ ७० ॥ इतः सुदशनस्यैव, मित्रं राज्ञः पुरोहितः । अत्यन्तं स्नेहसंपन्नो, ब्राह्मणः कपिलाभिधः ॥ ७१ ॥ कपिलाख्या च तहार्या, श्रुत्वा सा गुणकीर्तनम् । स्वभर्तुरन्तिके जाता, साऽनुरागा सुदर्शने ॥ ७२ ॥ रहः कदाचिदालोक्य, स्ववेश्मनि । सुदर्शनम् । निन्ये स्वभ रातङ्ककथनच्छद्मना ततः ॥ ७३ ॥ अभ्यन्तरापवरिकां, प्रविश्य तमुवाच सा ! स्वामिन् । प्राप्तो बहोः कालात् समयोऽयं मनोरथैः ॥ ७४ ॥ यत्रागमनं भवतः सम्पन्नं तमिह सफलयेदानीम् । मम विरह-/ दग्धदेहं निजसङ्गाजलेन निर्वाप्य ॥ ७५ ॥ श्रुत्वेदृशं वचस्तस्या, अनुरागेण निर्भरम् । आसन्नलब्धप्रतिभः, सोऽभ्यधादिदमुत्तरम् ॥ ७६ ।। किं त्वया न श्रुतं भद्रे! षण्ढोऽपि यदहं किल । नरवेषेण तिष्ठामि, मायया मुग्ध. वञ्चकः॥ ७७ ॥ ततो निवृत्तरागाऽसौ. भट्टिनी तं व्यसर्जयत् । सम्प्राप्तः स्वगृहे जातो, गाढं दीक्षाभिलाषुकः ॥७॥ संजायते न चाद्यापि, धर्माचार्यादिमीलकः। एवं दिनेषु गच्छत्स, राज्ञोद्याने कदाचन ॥७९॥ प्रारब्ध उत्सवः कोऽपि,
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org