________________
पञ्चाशत् । द्वासप्ततिः शतं च प्रविस्तरोच्चत्वदीर्घत्वैः ॥ ५६॥ उत्तुङ्गतारतोरणमन्दिरचुलोच्चचारुशिखराणि ।। क्वणकलकिङ्किणीकध्वजपतिविभूषितान्युच्चैः ॥ ५७ ॥ रथगजतुरङ्गखचरप्रतिरूपकराजिराजितान्यधिकम् । सर्वांगमनोहरशालिभञ्जिकारम्यरूपाणि ॥ ५८ ॥ तद्गर्भगृहस्यान्तः प्रवरतरा रत्नपीठिकैकैका तासु जिनेन्द्रप्रतिमा अष्टमहाप्रातिहार्ययुताः ॥ ५९ ॥ अष्टोत्तरशतसख्या दशार्द्धवरवर्णरत्ननि। वृत्ताः । रमणीया रोमहस्तकघण्टाद्युपकरणसंयुक्ताः ॥ ६० ॥ उत्कर्षतः प्रमाणं तासां श्रीनाभिसूनुना तुल्यम् । वीरजिनेन समानं जघन्यतो मध्यमं चित्रम् ॥ ६१ ॥ जिनभवनद्वारेभ्यः पुरतो मुख-2 मण्डपाश्चतुभ्योऽपि । स्तम्भावलीविशिष्टास्त्रिद्वाराश्चित्रचित्रायाः ॥ ६२॥ तेभ्योऽग्रतः सुरासुरसत्प्रेक्षणकोचिताश्च तत्सदृशाः । प्रेक्षणकमण्डपास्तत्पुरतः स्तूपाश्च रत्नमयाः॥ ६३ ॥ श्रीऋषभवर्द्धमानकचन्द्राननवारिषेणनामानः। तदभिमुखाश्च चतुर्दिग्व्यवस्थिता जिनवरप्रतिमाः ॥ ६॥ मणिपीठिकास्थितास्ताः प्रशान्तमुखनयनशोभितशरीराः । स्तूपेभ्योऽपि पुरस्ताद्रमणीयाश्चैत्यवरवृक्षाः ॥ ६५ ॥ मणिपीठिकास्तदने तासु महेन्द्रध्वजा अतिशयोच्चाः। रमणीयपुष्करिण्यस्तत्पुरतो विमलजलपूर्णाः ॥ ६६ ॥ एवं नन्दीश्वरे चैत्यस्वरूपमुपवर्ण्य तौ । धर्मलाभ प्रदायास्मै,
Jain Education in
For Private & Personal Use Only
Tww.jainelibrary.org