SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ तदा च काले-बहलघुसणरागो गन्धतैलं सुपक्कं, ज्वलनशकटिका च प्रौढकाषायवस्त्रम् । सदपवरकमध्यं । कामिनीनामुरोजाः, प्रियमखिलमपीदं यत्र जातं जनानाम् ॥ ८ ॥ एवंविधहेमन्ते नद्यास्तीरे निरावरण देशे । अस्तं गच्छति भास्वति सतुषारे वाति वाते च ॥९॥ निष्प्रतिकर्मशरीरं, मेरुस्थिरमम्बुनाथगम्भीतारम् । अद्राक्षीन्मुनिमेकं कायोत्सर्गस्थमथ सुभगः ॥ १० ॥ तं दृष्ट्वा चिन्तयामास, कथमेष महामुनिः । पतत्येवंविधे शीते, स्थास्यत्यप्रावृतांशुकः ?॥ ११॥ अपिच-अस्मिन् सरितस्तीरे प्रचुरतरश्वापदाकुले भीमे । रजनिमेनकापायां कथं गमिष्यत्यसावेकः ? ॥ १२ ॥ इत्यादि चिन्तयन्नेव, बहुमानपुरस्सरम् । अभिवन्द्य गतो गेहं, गृहीत्त्वा महिषीर्निजाः ॥ १३ ॥ कथञ्चित्तामसौ रात्रिं, तत्रानैषीत्समुत्सुकः । भूयोऽपि दर्शनाकाङ्क्षी, मुनेरत्यन्तवत्सलः ॥ १४ ॥ निशायां सावशेषायामुत्थायेयाय सत्वरम् । सैरिभीभिः समं यावत्तं मुनि समुदैक्षत ॥ १५ ॥ प्रणणाम ततो भक्त्या, तदवस्थमहामुनेः । पादौ प्रमोदजन्माम्बुपूरप्लावितलोचनः ॥ १६ ॥ निषसादान्तिके चास्य, तावद्यावदिनेश्वरः । उज्जगाम तमस्तोममपाकुर्वन्निशा सह ॥ १७ ॥ अत्रान्तरे-नमोऽहंद्य इति वाचं. व्यक्तमुच्चारयन्मुनिः । उत्पपात नभः सोऽपि, श्रुत्वा तां हृद्यचिन्तयत् ॥ १८ ॥ नूनमेषा महाविद्या, तेनोचारण Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy