SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ श्रीनववृहः हमविकौदारिकशरीरं समभावाविचलितमानसः संप्राप्तो देवभूयतां, जातो महर्द्धिको वैमानिकसुरः, अत एवोक्तम्-- सुदर्शन क थानकं सामायिक " धम्ममिणं जाणंता गिहिणोऽवि दृढव्वया किमुय साहू ? | कमलामेलाहरणे सागरचंदेण एत्थुवमा ॥१॥" सुदर्शनकथानकमिदानीं कथ्यते लक्ष्मीविलासमकुरः करुणारसाढ्यैलोकैः प्रवर्तितपवित्रविचित्रसत्रः । चञ्चल्ललाटतिलको वसुधाङ्गनाया, अङ्गाभिधो जनपदोऽस्ति जने प्रसिद्धः ॥ १॥ अमरावतीति विख्याता, तत्र चम्पाभिधा पुरी । नैव शक्तः सहस्रास्यो, वक्तुं शेषोऽपि यद्गुणान् ॥ २ ॥ अपिच-सुवर्णकलशावलीकलितदेवहाकुला, कुलाचलसमोन्नतिप्रवरवेश्ममालाश्चिता । निरस्ततिमिरस्थितिर्विपणिवर्तिरत्नोत्करैरनेककविविस्फरललितकाव्यकोलाहला ॥ ३ ॥ तस्यामभूदमलकीर्तिलतावितानविस्तारणप्रवणसद्गुणवारिपूरः । राजा प्रतापवसतिर्दधिवाहनाख्यः, तस्याभया प्रियतमा रतितुल्यरूपा ॥ ४ ॥ तस्य स्वकीयसम्पत्तिजितपुण्यजनेश्वरः । इभ्योऽभूदृषभदासः, ख्यातः कीर्त्तिगुणैः शुभैः ॥ ५ ॥ प्रेमपात्रं बभूवास्य, भार्या राजीवलोचना । अर्हदासीति विख्याता, सुशीलादिगुणावधिः ॥ ६ ॥ तद्गृहे सुभगो नाम, महिषीपरिरक्षकः । भद्रकोऽसौ गतोऽटव्यामन्यदाऽऽदाय सैरभीः ॥ ७ ॥ ॥२५३ Jain Education International For Private & Personel Use Only Awjainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy