________________
Jain Education Inter
क्त्वमात्रलाभ एवाभवत्, तदनन्तरं च सागरचन्द्रवर्जा शेषपर्षदभिवन्द्य भुवनबन्धुं स्वस्थानं प्रति गता, सागर - चन्द्रस्तु परमवैराग्यवासनावासितान्तःकरणस्त्रिकरणशुद्धेन भावेन जिनं प्रणम्याणुत्रतादिश्रावकधर्मे च प्रतिपद्य यावन्नगरीसंमुखं चचाल तावदस्य चेतस्यभवद्, यथा-भुवननाथेन संसारनिस्तरणोपायः आनन्तर्येण सर्वविरतिरेव प्रतिपादिता, देशविरतिस्तु परम्परया, तदयं सर्वविरत्यङ्गीकारोऽस्माभिः किं कर्त्तु पार्यते ? किंवा नेति तोलयाम्यात्मानं, ततो नगर्यासन्नोद्यान एव सामायिकग्रहणपूर्व ततः कायोत्सर्गेण महासत्त्वतया स्वीकृता चेतसा सर्वरात्रिकी प्रतिमा, इतश्च नभः सेननियुक्तचरपुरुषेण समवसरणोत्थान कालादेव सागरचन्द्रस्य पृष्ठलग्नेनोपलभ्य तं वृत्तान्तं कथितं नभःसेनस्य, सोऽपि तुष्टचित्तः समागतस्तं प्रदेशं दृष्ट्वाऽमुं पूर्वशेषप्रज्वलित आर्द्रा मृदमादाय | सागरचन्द्रशिरसि विरचितवांस्तया कुण्डलिकां, तां च श्मशानज्वलदङ्गारनिकरेण पूरितवान् ततः स विदितजिनमततत्त्वः 'सर्वः पूर्वकृतानामिह लभते कर्मणां फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥ १ ॥ मा गाः खेदमिदानीमेतावत्यपि शरीरसङ्कुशे । सोढोऽनन्तगुणोऽयं जीव ! यतो नरकपतितेन ॥ २ ॥ इत्यादि भाव - नया भावयन्नात्मानं तदुपरि मनागप्यकुर्वाणो रोषं सम्यगधिषातां दाघवेदनां कृताऽर्हदादिनमस्कारः परित्यज्यै -
For Private & Personal Use Only
w.jainelibrary.org