SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ श्रीनवगृह-वृन्दपरिगतेन सह क्रीडन्तीं विलोक्य तां निवेदितं जनादनादियादवानां, तैश्च सङ्ग्रामभेरीताडनपूर्व चतुरङ्गबलेन समागत्य प्रारब्धमायोधनं, मुक्ता सरोषमाकृष्टकोदण्डदण्डैर्निरन्तरशर निकर वृष्टिर्विद्याधराणामुपरि, तेष्वपि तदेव कर्त्तुं प्रवृत्तेषु शम्बेन पादपतनपूर्व कथित निजवृत्तान्तेन क्षामितो विष्णुर्बलदेवश्च ततः शम्बं तिरस्कृत्य सर्वलो - | कस्य पश्यत उद्घाहितो नभःसेनो विष्णुना कन्यकां, न चासौ व्यमुञ्चत् तच्छम्बसागरचन्द्रयोरुपरिष्टादिदं वैरम, अतिकोपवशं गतश्छिद्रान्वेषी च संपन्नो, न लेभेऽवसरं क्वचिदपकारमसौ कर्त्तुं एवं काले गच्छति समवससारा - रेवतकोद्याने विमलकेवला लोकप्रकाशितसमस्तलोकालोकः सुरासुरनरेन्द्रसंस्तूयमानासमानचतुस्त्रिंशसुरकृताभिनवनवसङ्ख्यकनककमलविनिवेशितचरणयुगलो यादवकुलतिलको भगवानरिष्टनेमिः, तद्वन्दनार्थं च निर्गतो निखिलयादव कुमारसहितो वासुदेवो, ववन्दे त्रैलोक्यस्वामिनं नेमिं भगवताऽपि प्रारब्धा | धर्मदेशना कथितं संसारासारत्वं निन्दिता विषयाः प्रकाशितं दुर्जयत्वं मोहमहामल्लस्य वर्णितो देशसर्वचारित्रल| क्षणस्तन्निहननोपायः प्रकटिता तद्विजयपूर्विका केवलज्ञानलक्ष्मीलाभपुरःसरा शाश्वत शिवसौख्यसम्प्राप्तिः, | ततः संबुद्धा अनेके प्राणिनो गृहीतवन्तः केचित्सर्वविरतिं तत्पालनासमर्थाश्चापरे देशविरतिम्, अन्येषां तु सम्य न्यदा दतिशयः दूवृत्ती सामायिके ।। २५२ ।। Jain Education Inte For Private & Personal Use Only सागरचन्द्र ज्ञातं ।। २५२ ।। www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy