________________
Jain Education Internat
बसाने च लब्धचेतनेन चिन्तितं - कथमेतद्भविष्यति ?, यतो- नभः सेनाय दत्ताऽसौ, पितृभ्यां मयका कथम् । योज्या | सागरचन्द्रेण ? दुर्घटं तदिदं महत् ॥ १ ॥ यदुच्यते जनैः कैश्चिदितो व्याघ्र इतस्तटी । सोऽयं न्यायो ममायातः, | एतदभ्युपगच्छतः ॥२॥ ततो गतः प्रद्युम्नसमीपं कथितः सर्वोऽपि वृत्तान्तः, तेन च दत्ताऽस्मै प्रज्ञप्ती विद्या, इतश्रोभयपक्षयोरपि प्रारब्धो विवाहमहः कृतं वर्णप्रवेशनादि, ततः शम्बेन बहुकुमारोपेतेन सागरचन्द्रमुद्यानं नीत्वा अनवद्यविद्याबलेन नभः सेनसमीपे रूपान्तरं कमलामेलासन्निभं धृत्वा सुरङ्गयैनामपहृत्याने कविद्याधरसहितेन गान्धर्वविवाहमधिकृत्य परिणायितस्तामसौ, प्रज्ञप्तिविद्यासम्पादितानेकविधभक्ष्यपेयचूष्यलेह्यादिवस्तुविस्तराश्च सर्वे कुमाराः सपरिकराः क्रीडितुमारेभिरे । इतश्च नभःसेनो वैक्रियरूपया कमलामेलया सह यावच्चतुर्थमण्डलं परिभ्राम्यति तावन्महान्तमट्टाट्टहासं विमुच्यादृश्यतां गता सा, अन्ये तु कन्यान्तःपुरगतामेव तामपहृत्योद्वाहितवान्, नभः सेनविवाहसमये चानवलोक्यमानायामस्यामपहृतेति परिज्ञानमभूदित्याहुः, ततः समुत्थितो बहलकलकलः प्रवृत्ताश्च निरीक्षितुं सर्वत्र कमलामेलां कथितं च विष्णुबलदेवयोः, तन्नियुक्तपुरुषैश्च कथञ्चिदुद्याने विचित्रक्रीडाभिर्विद्याधररूपधारिणा सागरचन्द्रेण प्रचुरखचर
For Private & Personal Use Only
inelibrary.org