________________
Jain Education Intern
కారు
| क्षेत्र त्रिखण्डाधिपत्यप्रकाशमानासमानसाहसातिरेक रञ्जितवासवो वासुदेवो राजा, तस्य चात्यन्तविश्रम्भभाजनमतिशा| यिस्नेहसदनं दनुजादिभिरप्यक्षोभ्यसत्त्वनिकेतनं बलदेवो भ्राता, तत्पुत्रश्च निषधस्तस्यापि तनूजः संबादिकुमाराणामतिवल्लभः सागरचन्द्रनामा तत्रैव प्रतिवसति स्म, इतश्च तस्यामेव नगर्यमुग्रसेनाभिधाननरपतेरभिनवोपारूढयौवना निजरूपविनिर्जितसुरसुन्दरीसौन्दर्या कमलामेला दुहिता बभूव, सा च धनसेनराजसुनवे नमः सेनाय दत्ता, तत्प्रस्तावे चाकाशचारी परिव्राजकवेषधारी सम्यग्दृष्टिर्ब्रह्मचर्यव्रतो वैक्रियलब्धिसंयुतोऽनल्प के लिकरणपरायणो नारदो | लीलया परिभ्रमंस्तद्भवनमाजगाम स च तेन प्रधानकन्यालाभाक्षिप्तचित्तेन लक्षितोऽपि नोचितसपर्यया पूजितो, गतः प्रद्वेषं समुत्थाय ततो वेगेन प्राप्तः सागरचन्द्रसमीपं समुचिताभ्युत्थानासनदानवन्दनादिविनयपूर्वकं चा| भाषितो यथा - स्वागतं महर्षे!, पृष्टश्च यथा दृष्टपूर्वं किञ्चिदाश्चर्यं यत् क्वचित्, नारदेनोक्तम् - इहैवावलोकिता सम|स्ताश्चर्य सीमा रूपेण विजितरम्भातिलोत्तमा कमलामेला राजदुहिता, सागरचन्द्रोऽभ्यधात् - सा मे स्यात्कथञ्चित् ?, नारद | उवाच - नाहं जाने, यतोऽसौ नभः सेनाय दत्ता, क्षणमात्रेण विसर्जितोऽनेन, गतः कमलामेलोपान्तं, तया च प्रथममेव नारदमागच्छन्तमवलोक्य विहिताभ्युत्थानादिविनयप्रतिपत्तिः, उपविष्टो नारदः, प्रणामपूर्वं भणितस्तथैव च तेन
For Private & Personal Use Only
w.jainelibrary.org