________________
श्रीनव०बृह
वृत्तौ सामायिके
.२५०॥
सिवसग्गपरमकारणसामाइयसंगमं तु काऊण ।
गुणे सागर
चन्द्रसुदर्शसागरचंदसुदंसणहेऊउ, चयंति नो पत्तं ॥ ९७ ॥
नज्ञाते गा. शिवो-मोक्षः स्वर्गो-देवलोकस्तयोः परमकारणं-प्रकृष्टहेतुरक्षेपजनकत्वेन शिवस्वर्गपरमकारणं तच्च - तत्सामायिकं च शिवस्वर्गपरमकारणसामायिकं तेन सङ्गमो-मीलकस्तत्सङ्गमस्तं ' तुः । विशेषणे, किं विशिनष्टि ?
वा विधाय. किमित्याह-'सागरचन्द्रसुदर्शनहेततः' सागरचन्द्रसुदर्शनावेध हेत ताभ्यां ततः 'त्यजन्तिः मुञ्चन्ति 'नो' नैव ‘प्राप्तं । लब्धं, अत्र हेतुशब्देन हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुरिति || |व्युत्पत्त्या दृष्टान्तो विवक्षितः, तस्यापि जिज्ञासितविशिष्टार्थगमकत्वादिति गाथाऽक्षरार्थो । भावार्थस्तु कथानकाभ्यामवसेयः, तयोश्च सागरचन्द्रकथानकं तावद्-अस्ति प्रशस्तवस्तुविन्यासनिरस्तसमस्तदुरितोपद्रवो विपुलमेदिनीमण्डलमण्डनमसमानसेव्यतापराभूतसुरलोकः सौराष्ट्रो नाम देशः, तत्रादभ्रशुभ्राभ्रंलिहप्रासादशिखरशिखासमूहापहस्तितरविरथतुरङ्गमार्गा मार्गसंचरत्तरुणरमणीजनक्कणत्मणिमेखलानूपुरादिरत्नाभरणरणज्झणारावबधिरितदिग्द्वारा द्वारावती नाम नगरी, तस्याः प्रशास्ता प्रधानप्रणतसामन्तसङ्घातो घातितनिःशेषविपक्षपक्षो भरत
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org