________________
Jain Education Inter
| निरावरणमस्तको निदाघतापातिक्रान्ति तप्तवालुका दह्यमान चरणइन्हो रणद्वन्द्व हेतु राज्यत्यजन सुस्थमानसः । | शरीरपीडामात्राचलितसत्त्वोऽप्यतिशायिक्षुत्तृषाश्रमादिबाधाविधुरदे हो - नमोऽतीतानागतवर्त्तमानजिनेभ्यो नमः समस्तसिद्धेभ्यो नमः संसारान्धकूपनिपतितास्मादृशप्राणिसार्व सद्धर्मदेशनाऽवलम्बनाकर्षणप्रवणाय श्री सुस्थित सूरये, अस्तु मे तत्प्रसादात्परमचरमाऽऽराधेनत्यादि चेतसि कुर्वाणः सकलसत्त्वक्षामणापुरस्सरं निरा| कारप्रत्याख्यान प्रत्याख्यात समस्तव्यापारस्तस्यामेव रात्रौ विप्रहाय तद्भववर्त्तिदशविधप्राणान् प्रययौ सर्वार्थसिद्धं महाविमानं, तत्राप्यजघन्योत्कृष्टा तस्य त्रयस्त्रिंशत्सागरोपमाणि जाता स्थितिः, ततयुतः सेत्स्यतीति ॥ एवं च | विशुद्ध सामायिक परिपालनगुणेनायं स्वल्पकालेनाप्याराधको जातः कण्डरीको वर्षसहस्रमपि व्रतं परिपाल्यान्ते | प्रतिपतितसामायिकपरिणामदोषेण विराधको, यदुक्तं धर्मदासगणिना - " वाससहस्संपि जई, काऊणं संजमं सुविउलंपि । अंते किलिट्टभावो नवि सुज्झइ कंडरीउव्व ॥ १ ॥ अप्पेणवि कालेणं केइ जहागहियसीलसा| मण्णा । साहिति निययकज्जं पुंडरियमहारिसिव्व जहा ॥ २ ॥ " इति परिभाव्यास्य पालन एव यतितव्यं, भङ्गस्तु रक्षणीय इति दोषद्वारगाथाभावार्थः ॥ यथाऽवस्थित परिपालने त्वमुष्य गुणं दिदर्शयिषुस्तद्वीरगाथामाह—
For Private & Personal Use Only
jainelibrary.org