________________
श्रीनव० बृह दवृत्ती सामायिके
-॥ २४९ ॥
Jain Education Inter
नेनानादरं विलोक्यमानः करोमि तावदष्टादशभक्ष्यविशेषैर्बहोः कालादद्य भोजनं पश्चाद् ज्ञास्याम्यहमेतैः | सार्द्धमित्यापूरयन् रौद्रध्यानमादिदेश सुपकारान् - भद्राः ! यदत्र किञ्चिद् व्याप्रियते भक्ष्यं तत्सर्वं संस्कृत्योपस्था - प्यतां भोजनशालायां, तैरपि यथाऽऽदिशति देवस्तथा कुर्म इत्यभिधाय कियत्याऽपि वेलया संपादितं तच्छासनं, कथितं तदग्रे, उपविष्टो भोजनमण्डपे, दृष्ट्वाऽनेकप्रकारं भोज्यजातं बलिभिर्दुर्बला निर्द्धाट्यन्त इति प्रेक्षणकदृष्टा- | न्तेन प्रथमं वचनकाद्यसारं भुक्त्वा पश्चाहुभुजे घृतपूरादिप्रधानवस्तूनि ततः क्षुत्क्षामकुक्षिणा तेन तावद्भुक्तं यथेप्सितं यावज्जलावकाशोऽपि जठरे नास्य विद्यते, अत्यन्तभक्षणाच्चाभूद्रात्रौ तस्य विसूचिका, तया च बाधितो गाढम, अनादेयतयाऽप्रतिजागर्यमाणो जनेन चिन्तयामास - यदि कथमपि दैवादहमेतामत्रापदं तरिष्यामि तदाऽमी लोकाः सर्वे निग्राह्याः खदिरकुट्टिन्या, एवं प्रवर्द्धमानातितीव्ररौद्र परिणामः कियत्याऽपि वेलयाऽपरिपच्यमानाहारजनित महादाघवेदनादो दूयमानो मृत्वा समुत्पेदे सप्तभनरक पृथिव्याम प्रतिष्ठानाभिधान महानरकेऽजघन्योत्कृ|ष्टत्रयस्त्रिंशत्सागरोपमप्रमाणस्थितिनारकत्वेन । पुण्डरीकोऽपि समुल्लसितशुभ जीववीर्ययोगेन प्रयातः कियन्तं भूभागं सुकुमालपाणिपादः ( देह : ), कदाचिदप्यदृष्टकष्टस्तावदतिखर किरण करनिकरोपताप्यमानपञ्चमुष्टिकलोच लुञ्चित
For Private & Personal Use Only
दोषे कण्डरीकज्ञातं
॥ २४९ ॥
www.jainelibrary.org