________________
ततो व्यचिन्ति - न शोभनमेकाकिनोऽस्यागमनं, अनेन हि प्रतिपतितपरिणाममेव तमहमाकलयामि, तस्मादुचित| स्वल्पपरिजन एव गच्छामि तत्समीपं ततो गतो यथाचिन्तितक्रमेणैव नृपतिः यावत्पश्यत्यमुं सुकुमारहरितकाय | स्योपरि निविष्टं पर्यस्तिकावष्टम्भेन, सोऽपि दृष्ट्वा राजानमुत्सार्य पर्यस्तिकां स्थितस्तत्रैव पादप्रसारिकया, तदीयचेष्टा| विशेषविदितान्तराभिप्रायेण च तेन नायमितोऽनन्तरमत्यन्तव्रतपराभनः किमप्यपरं भणितुमुचितः केवलमनुकूल| मेवास्याभिधीयत इति विचिन्तयता बभाषे -भद्र ! मया त्वं पूर्वमेव भणितो, न च तदा मदीयवचनमकारि भवता, तदिदानीमपि साधु कृतं यत्त्वमिहागतोऽसि गृहाणेदं राज्यं समर्पय मम स्वकीयरजोहरणादिवेषं ततो वाञ्छन् विषयसुखमसौ राज्ये विनिवेशितो नरेन्द्रेण, सेयं क्षुधार्त्तमूर्त्तेर्विशिष्टतरभोज्यसंप्राप्तिः - राज्यालङ्कारमादाय, कण्डरी| कोऽभवन्नृपः । तद्वजोहरणं धृत्वा, पुण्डरीकोऽजनि व्रती ॥ १ ॥ पश्चात्पुण्डरीकेण कथितममात्यानां यथा - युष्माकमप | सम्प्रति नृपतिर्यामो वयं च गुरुमूलम् । चिन्तितमनोरथानां ममाद्य जाता सुनिष्पत्तिः ॥ १ ॥ इति प्रतिपादयन्नेादृष्टगुरुपादमूलेन न भोक्तव्यं न शयितव्यमिति मनसि विधाय गाढप्रतिज्ञां प्रवर्धमानातितीव्रशुभ परिणामो निश्चक्राम नगरात, इतरोऽपि गतो राजभवनं, व्रतभ्रष्ट एष कोऽमुष्य मुखमीक्षते इत्यभिप्रायवता परिज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org