SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ दोषे कण्डंरीकज्ञातं सामायिक अनिव०बृहतमादित्सुरासीत् परं तदा मयैव निवारितः स स्वयं गृह्णता प्रव्रज्यां, अधुना चाहमशक्तो व्रतपालने, तस्माद्रवृत्ता जामि तत्समीपमेव, स एव ममेच्छां भ्रातृस्नेहेन विशिष्टव्रतकरणाभिलाषेण च पूरयिष्यति, न चात्र व्यति करे ममान्योऽभिगमनीयोऽस्तीत्यादि विचिन्त्य ग्रामान्तरप्रस्थितेषु मरिष्वन्यदाऽकथयन्नेव साधूनां स्थितः पृष्ठ ॥२८॥ एव दिनद्वयं निगम्य प्रस्थितः पुण्डरीकिण्यभिमुखं, प्राप्तश्च क्रमेण तां, अन्ये तु विश्रोतसिकाकारणं वसन्तसमयसमागमरमणीयतां वर्णयन्ति, यतो लिखितमस्मत्पूज्यैः-" ततः समागते वसन्तसमये कामोत्कोचकारिषु पुष्पितेषु सहकारेषु सहकाराङ्कुरास्वादमुदितमानसेषु कलं कूजत्सु कोकिलेषु प्रमदभरपरवशत्वविघूर्णमाननागरकलोकस्थानस्थानप्रवय॑मानासु चारु चच्चरीषु वर्षसहस्रं यावत्परिपालितश्रामण्योऽपि कण्डरीकः संयमाच्चलितचित्त एकाक्येव राज्यार्थी समायातः पुण्डरीकिण्यामिति " स्थितो बहिरुद्याने, उच्चतरतरुशिखरशाखायामवलम्ब्य पात्रकाद्युपकरणं गत उद्यानपालकान्तिकं, भणितवांश्चैनं-यथा भो! मदागमनवाता विज्ञाप्य पुण्डरीकनरपतेः कथय यथा युष्मदर्शनमाकाङ्क्षति कण्डरीकः, तद् भवन्तो वा तत्रागच्छन्तु स वाऽत्रागच्छत्विति ?, गतोऽसौ, कथितं यथाभणितं, पृष्टं राज्ञा-कियत्साधुसमन्वितः कण्डरीकः ?, तेनोक्तम्-एकाकी, 2 Jain Education Inter For Private & Personal Use Only ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy