SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ततः स्थितोऽसौ तत्रैव, सूरयश्च विहृता अन्यत्र समं शेषतपस्विभिः, भूयोऽपि केषुचिदिवसेष्वतिक्रान्तेप्वागताः, पुनर्भणितो, नायातुमिच्छति, ततो ज्ञातं सूरिभिः-नन्वयं शठीभूतो रसादिगाद्धर्थेन नायियासुः ।। तदनन्तरं कथितं राज्ञः, तेनापि धृत्वैकान्ते भणितोऽसौ-तवोभयकुलविशुद्धस्य क्षत्रियवंशालङ्कारभूतस्य स्वेच्छागृ-|| हीतदुष्करप्रव्रज्यस्य नेदमुचितं, यतः स एव भारः सत्पुरुषैरुत्क्षिप्यते निवोढुं यः पार्यते, किञ्च-तद्विस्मृतं भवतो यत्स्वमुखेनैव पुरा प्रकाशितं 'साहसवशेने त्यादि, तद्विमुच्येदानीं शीतलविहारितामतिं ब्रज गुरुभिः सह संपद्यस्वोद्यतविहारपरायणो येन संपद्यसे सुगतिसाधकः, ततोऽसौ किञ्चिल्लज्जाऽवनमितकन्धरः स्थित्वा क्षणं यदात्थ यूयं । तत्करोमीत्युक्त्वा प्रस्तुते गमनदिवसे चचाल सृरिणा साई, न चान्तप्रान्तरूक्षभिक्षाया उपर्यस्याभिलाषः, केवलं स किश्चिद्भातृलज्जातः किश्चित्सरिव्यपेक्षया विहृतः साधुभिः साई दिवसा(ना)नि कियन्त्यपि, वेलाव्यतीतशीतलविरूक्षमैक्ष्यस्य भक्षणे अन्येयुश्चेतो विस्रोतसिकामुपेयिवान् कर्मदोषेण-नूनं न शक्यतेऽस्माभिरियं प्रव्रज्या परिपालयितुं, लोहमययवचर्बणतुल्या खल्वेषा, नाल्पसत्त्वैर्वोिढुं पार्यते, तदिदानी-किं करोमि क वा यामि, किं याचे वा धनाद्यहम् । कस्य वा करवै सेवामशक्तो व्रतपालने ?॥ १॥ हुँ ज्ञातं मम भ्राता पुण्डरीकः पूर्वमेव | Olainelibrary.org Jain Education Inter For Private & Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy