________________
॥२४७॥
श्रीनवव्ह ||गतस्तत्पार्ध, वन्दित्वा पृष्टः शरीरवार्ता, कथिता तेन, तत आदिष्टा भूपतिना भिषग्वराः यथा प्रगुणीक्रियतामयं साधुः ||
दोषे कण्डवृत्ती
किज्ञातं सामायिक औषधादिना येन प्रयोजनं तदस्माकं ज्ञाप्यं येन संपादयामः, तैरपि यथाऽऽदिशति देवस्तथा क्रियत इति प्रति
पाद्य प्रारब्धाः साधोः क्रियाः, येन दुग्धशर्करादिना प्रयोजनं तत्सर्व संपाद्यते राजाऽऽदेशेन नियुक्तकपुरुषैः, मासकल्पपूतौ च सूरिणा तत्समीपे परिचारकसाधून् धृत्वा चक्रेऽन्यत्र विहारः, तस्य च क्रमेण निवृत्तप्रायो जातो । व्याधिः, सूरिश्च कदाचित्प्रत्याववृते तत्रैव, ददर्श कण्डरीकं नीरोगत, ततः स्थित्वा कानिचिदिनान्यादिदेशामुं, यथा-भोः कण्डरीक ! बहूनि दिनानि स्थितोऽस्यत्र त्वं, न चैकत्र साधूनां प्रभूतकालमवस्थानमुचितं, सिद्धान्तनि-al षिद्धत्वात्, तथा चोक्तम्-“ पडिबंधो लहुयत्तं, न जणुवयारो न देसविण्णाणं । नाणाराहण कज्जे इइ दोसऽविहारपक्खंमि ॥१॥" वयमपि च विजिहीर्षवोऽन्यत्र, तदिदानी मुत्कलय्य राजानमस्माभिरेव सममागम्यता, कण्डरीकोऽपि वातरोगानुरूपोपचारेणोपचर्यमाणः सुस्निग्धमुग्धपेशलाहारैस्तल्लोलुपत्वाज्जातरसगार्थपरिणामः तत्स्थान है परित्यक्तुमपारयन्नुवाच-भगवन् ! न नः शरीरमिच्छाकारेण तथाविधपाटवमद्यापि भजते, तेन|| कियन्त्यपि दिनान्यत्रैव स्थातुमिच्छामः, सूरिणा निरदेशि-तिष्ठाप्रतिबद्धचित्ततया, तेनोदितं-इच्छाम्यनुशिष्टिं,
YURBO
Jan Education International
For Private Personal Use Only
www.jainelibrary.org