________________
ततः कण्डरीकः-किमत्र परिकर्मणया-यावत्साहसमालम्ब्य, तात ! कार्ये प्रवर्त्यते । धीरैर्न दुष्करं तावत्किञ्चिदत्र l विभाव्यते ॥१॥ यदुक्तम्-सङ्कुचति महीमण्डलमब्धिः शुष्यति लघूभवति मेरुः । साहसवशेन पुंसामनुकूलं ।। | भवति देवमपि ॥२॥ न चाहमप्यन्येन पित्रा जातः, तदवश्यं मया प्रव्रज्यैव ग्राह्येति प्रतिपादयन्निषिध्यमानोऽपि | पुण्डरीकेण गत्वा सूरिसमीपं स्वीचकार व्रतं, पुण्डरीकस्तु ततः प्रभृति स्थितो विशेषेण श्रावकधर्मपरायणः सतत
मेव सर्वविरतिविषयां मनोरथमालामनुचिन्तयन् राज्य एव, कण्डरीकस्तु गृहीतद्विविधशिक्षः सुस्थिता-ol ||चार्यैः समं विहरन् ग्रामारामनगराकरमण्डितां वसुमती निनाय कियन्तमपि कालं, अन्यदा तु । N तथाविधभवितव्यतावशेन गृहीतोऽसौ रौद्रव्याधिना कारितः स्वसामग्न्यनुरूप्यमौषधादि सूरिमिः, न जातो विशेषः, ततः समागतास्तस्यामेव पुण्डरीकिण्यामाचार्याः, आवासिताः प्राशुकोद्यानभुमी, विज्ञायागमनमाचार्याणां समाययौ राजा वन्दनानिमित्तम् , अभिवन्द्य परमभक्त्या सूरीन् पप्रच्छासौ-भगवन् ! वास्ते कण्डरीकमुनिः? सरिणा निर्दिष्टं-विद्यतेऽस्मिन्नेव पुरोऽवलोक्यमाने शून्योद्यानपालवेश्मनि, राज्ञोक्तं-किमिति युष्मत्पार्श्व एव नोपविष्टः ?, सरिणाऽभ्यधायि-किञ्चिद्रोगवशग एष न शक्नोति महती वेलामुपविष्ट आसितुं, ततो राजा स्वयमेव ।
Jan Education Inteme
For Private & Personal Use Only
ॐMainelibrary.org