________________
श्रीनव० वृह दूवृत्ती सामायिके
२४६ ॥
त्ययाः सन्ति ?, सूरिणोक्तं - सन्ति विशेषप्रत्यया अपि तथा चागमः - " महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचेदियवहेणं जीवा नरयाउयं कम्मं निव्वत्तंति" तत एतदाकर्ण्य भूपतिः सत्रासं हा गतोऽस्मि तर्हि नरकं महारम्भतादिविशेषप्रत्ययानां राज्यनिबन्धनानां मयि सद्भावादिति विचिन्त्य प्रणामपूर्वं पुनरब्रवीन्मुनिं - स्वामिन् ! अस्ति कश्चिदस्मादृशां नरकनिवारणोपायः ?, सूरिणाऽभिहितम् अस्ति भागवती दीक्षा, राज्ञोचे - कीदृशी सा ?, ततः सुस्थिताचार्येण सविस्तरमष्टादशशीलाङ्गसहस्रपरिपालनस्वभावाऽक्षेपमोक्षनगरप्रापिका प्ररूपिताऽर्हतां दीक्षा, हृष्टेन नरपतिनाऽभिदधे - यद्येवं निवेश्य लघुभ्रातरं कण्डरीकं राज्ये गृह्णामि भवत्पादमूलेऽहमिमां, ततोऽतिहृष्टचेता उत्थाय | भूयोऽभिवन्द्य भावसारं गुरून् गतो निजवेश्म, तत्राहूतः प्रस्तावे कचित् कण्डरीको, भणितश्च वत्स ! परिगृहाणामुं राज्यविस्तरम्, अहं तु त्वदनुमत्याऽङ्गीकरोमि महापुरुषनिषेवितमुत्तमं धर्मं, कण्डरीक आख्यद्-भ्रातः ! कि - मप्रस्ताव एव त्यज्यते राज्यं ?, पुण्डरीकेणोक्तं - दुर्गतिहेतुत्वदोषतो, महारम्भतादिभिर्नरक इति व्याख्यातं सूरिभिः, ततो लघुभ्रात्राऽभिहितं -आर्य ! यदीदृशमिदं राज्यं तत्किं मह्यं प्रदीयते ? । तवाहमपि नानिष्टो, यतोऽभूवं कदाचन ॥ ॥ राजोवाच- त्वमपरिकर्मितदेहः शक्नोषि न दुष्करं तपः कर्त्तुं । तेनानुपाल्य राज्यं पश्चिमवयसि व्रतं कुर्याः ॥२॥
Jain Education International
For Private & Personal Use Only
दोपे कण्ड कज्ञातं
॥ २४६ ॥
www.jainelibrary.org