SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ नरकादिभवे क्षिप्तास्तेन चात्यन्तवैरिणा । सहन्ते दुःखसङ्घातं, छेदनाद्यमनेकधा ॥ २ ॥ तथाहि नारका दृष्ट्वा, घटिकालयवर्धिनः । उत्पत्तिसमये रौद्रः, परमाधार्मिकासुरैः ॥ ३ ॥ आकृष्यन्तेऽतिनिस्त्रिंशमारटन्तः कटुस्वरम् । विपाटयन्ते । ततस्तीक्ष्णकरपत्रैः कपाटवत् ॥ ४॥ शक्तयादिभिर्विभिद्यन्ते, कल्प्यन्ते कल्पनीशतैः । हन्यन्ते मुद्गरैर्वास्या, तक्ष्यन्ते । दारुवत्तथा ॥ ५ ॥ भिन्नाश्छिन्ना हता एवं, पुनः संघटिताङ्गकाः । दुर्वारदैवयोगेन, भूयो वीक्ष्य ततोऽसुरैः ॥६॥ नीयन्ते शाल्मलीदेशमालिङ्ग्यन्ते च तास्ततः । वनकण्टकभिन्नाङ्गाः, रसन्ति करुणस्वरम् ॥७॥तप्तत्रपु च पाय्यन्ते, संदंशविधृताननाः । दृढं भ्राष्ट्रे तु भुज्य(भृज्योन्ते, भक्ष्यन्ते निजमामिषम् ॥ ८॥ तार्यन्ते च वसापूयरुधिरक्लेदकमलाम् । बायध्वमिति जल्पन्तो, घोरा वैतरणी नदीम् ॥९॥असिपत्रवनं याताः कथञ्चित्ते ततश्युताः। तत्रापि पतितैः । पत्रैश्छिद्यन्ते शस्त्रसन्निभैः॥१०॥एवं तिसृषु पृथ्वीषु, परतस्तु परस्परम् । षष्ठी यावन्महादुःखं, नारकैरुपजन्यते ॥११॥ अन्योन्यसंमुखाकारोपर्यधोभाववर्तिनः । पृथिव्यां बत सप्तम्या, विद्यन्ते वज्रकण्डकाः ॥ १२ ॥ तन्मध्ये नारका जाताः, all निर्गन्तुं न च पारिताः । उत्पतन्तः पतन्तश्च, तुद्यन्ते मरणावधि ॥१३॥ अत्रान्तरे नृपतिराह-भगवन् ! नारकाणामतिप्रचुरदुःखता भगवता प्रतिपादिता, तत्र च नरकोत्पत्तौ प्राणिनां किं मिथ्यात्वादय एव सामान्यप्रत्यया उतान्येऽपि विशेषप्र Jan Education Interation For Private Personel Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy