________________
श्रीनवoge दूवृत्ती सामायिके
॥ २४५ ॥
Jain Education International
कशाल
शिखरेण महामेरुणाऽधिष्ठितमध्यं मेरुदक्षिणोत्तरपार्श्वविराजमाननिषधनीलवन्तपर्वताऽऽलग्नसमुत्थितचतुर्वक्षस्कार- दोषे कण्ड| शिखरिसमुद्दीपितदेव कुरूत्तर कुरुक्षेत्र विभागं सीतासीतोदाभिधानमहानदीद्वितयोभयतटनिविष्टद्वात्रिंशद्विजयविभूषितं महाविदेहाभिधानं क्षेत्रं तस्मिन् पुष्कलावतीविजये पुण्डरीकिणी नगरी - विपणिपथविकीर्णस्वर्णरत्नप्रवालकमुकमलयजादिद्रव्यजातीर्विलोक्य । भवति मनसि नूनं पान्थसार्थस्य यस्यां ननु भुवि नगरीयं सर्वलक्ष्मीनिवासः ॥ १ ॥ तस्यां च - स्वकुलगगनभानुभतिवल्लीकृशानुर्नयविनयपटिष्टः शिष्टचेष्टागरिष्ठः । अरिकरिवरकुम्भोद्भेदलीलायितेन प्रकटितनिजनामा पुण्डरीको नृपोऽभूत् ॥ २ ॥ तस्य च कण्डरीको नामा लघुभ्राता युवराजः, तयोश्च खपुण्योदयानुरूपसंपद्यमानानवद्यसांसारिक सुखानुभवयोः नित्याऽनुपालयतोर्महीमतिचक्राम प्रभूतः कालः, अन्यदा च समाजगाम ग्रामनगरादिषु विहारक्रमेण बंभ्रम्यमाणः सुस्थिताचार्यस्त - नगरीं, समवसृतो बहिरुद्याने, विदिततदागमनवृत्तान्तः समं पुण्डरीकनरपतिना वन्दनादिनिमित्तं समाययौ नगरी - लोकस्तत्समीपं विधिवद्वन्दनापुरस्सरं च सूरिदत्तधर्मलाभाशीर्वादमुदितमानसः समुपविवेश यथास्थानं, सूरिणा प्रारधा धर्मदेशना, यथा - अनाद्यनन्तसंसारे, मिथ्यात्वादिवशीकृताः । प्राणिनः कर्म बघ्नन्ति, ज्ञानावरणादिभेदवत् ॥१॥
For Private & Personal Use Only
॥ २४५ ॥
ainelibrary.org