SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ 'सामायिकं । उक्तशब्दार्थ 'तुः पुनरर्थे तस्य चाग्रे योजना प्रतिपद्य अङ्गीकृत्य 'भञ्जन्ति' विनाशयन्ति | पुनः कर्मदोषेण ' चारित्रावरणीयादृष्टापराधेन'ते'सामायिकप्रतिपत्तारःप्रस्तुतश्रावकाः, किमित्याह-'कण्डरीकसदृशाः कण्डरीकाभिधानराजपुत्रतुल्याः ‘भ्रमन्ति, पर्यटन्ति संसरन्त्यस्मिन् प्राणिन इति संसारो-नारकतिर्यनरामरगतिलक्षणः स एव चतुरशीतियोनिलक्षगहनवाज्जरामरणादिभयाकुलत्वाच्च कान्तारम्-अटवी संसारकान्तारं तस्मिन् । नन्वत्र देशविरतश्रावकाः प्रस्तताः कण्डरीकस्त प्रतिपन्नसर्वविरतिः अतः कथं सोऽत्र दृष्टान्त तया स-1 गच्छते ?, सत्यं, सर्वविरतेरपि सामायिकभेदत्वेन तच्छब्दवाच्यत्वादित्यदोष इति गाथाऽक्षरार्थः ॥ भावार्थस्तु कथानकगम्यः, तच्चेदम्-- ___अस्ति समस्तशस्तवस्तुस्तोमनामासङ्ख्येयद्वीपसागरमध्यवर्ती हिमवदादिषट्संख्याविख्यातवर्षधरगिरिवर-|| विरचितभरतादिसप्तक्षेत्रीविशेषो गङ्गासिन्धुप्रमुखचतुर्दशमहानदीप्रतिबद्धानेकसहस्रसङ्ख्यतटिनीसमूहरमणीयो जम्बू-d द्वीपनामा द्वीपः, तत्र योजनलक्षप्रमाणेन किरणनिकरप्रहतान्धकारपञ्चप्रकारसाररत्नोन्मिश्रजात्यजांबूनदमयेन । भद्रशालवनोपशोभमानभूमिकेन नन्दनसौमनसाभिधानोद्यानद्वयालङकृतमेखलायुगलेन पण्डकवनखण्डमण्डित Jain Education inte For Private & Personel Use Only w .jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy