________________
श्रीनव० गृह द्रवृत्तौ सामायिके
॥ २४४ ॥
Jain Education Int
| सामायिकं गुरुणोद्दिष्टं यथा सामायिकसूत्रं पठ तदैव सामायिकं मन्यते, सङ्ग्रहव्यवहारौ तु सामायिकार्थं गुर्वन्तिकोपविष्टस्यैव सामायिकमभ्युपगच्छतः, ऋजुसूत्रमतं तु यः सामायिकाभ्युपगमसूचिकां सामायिकगाथां पठति चैत्यवन्दनं वा तदर्थं करोति तस्यैव सामायिकमभ्युपगच्छति, आसन्नासाधारणकारणत्वात, शब्दादयः पुनः सामायिकोपयुक्तं समभावव्यवस्थितं शब्द क्रियारहितमपि सामायिकं स्वीकुर्वन्ति, तत्परिणामानन्यत्वात् इति नयवादाश्वित्राः। | कचिद्विरुद्धा इवाथ न विरुद्धाः । लौकिक विषयातीतास्तत्त्वज्ञानार्थमधिगम्याः ॥ १ ॥ न चैतेभ्यस्तत्त्वज्ञानं न संभवति परस्परविरुद्धार्थप्रतिपादकत्वादिति वाच्यं तथाभूतानामपि परस्परनिश्रया सम्यग्रूपत्वात् तथाचोक्तम्- | " एवं सव्वेऽवि नया मिच्छद्दिट्ठी सपक्खपडिबद्धा । अण्णोऽण्णनिस्सिया पुण लहंति सम्मतसम्भावं ॥ १ ॥ " अत एव च सर्वनयसमूहमयं जिनमतमभिधीयते, यथोक्तम्- " सोउं सद्दहिऊण य णाऊण य तं जिणोवएसेणं । तं सव्वनयावसुद्धं समत्थनयसम्मयं जं तु ॥ १ ॥ " उक्तं यथा जायते सामायिकम् अधुना जातमप्येतद् यदि न पाल्यते तदा दोषः ? इत्याह
सामाइयं तु पडिवज्जिऊण भजंति कम्मदोसेण । ते कंडरी सरिसा भमंति संसारकंतारे ॥ ९६ ॥
For Private & Personal Use Only
दोषद्वारं गा० ९६
॥ २४४ ॥
ww.jainelibrary.org