SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ विधि श्रीनव०बृह वृत्ती सामायिके ॥२४३॥ भाङ्गीदितिबुद्धया यदिवा गच्छन्न किमपि व्यापार व्यापारयेत् तदा गृह एव सामायिक गृहीत्वा । चैत्यगृहं साधुमूलं वा यथा साधुः पञ्चसमितिसमितस्त्रिगुप्तिगुप्तस्तथा याति, आगतश्च त्रिविधेन । साधून्नमस्कृत्य तत्साक्षिक सामायिकं पुनः करोति- करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामी ' त्यादि सूत्रमुच्चार्य, तत ई-पथिकी प्रतिक्रामत्यागमनं चालोचयति, al तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधून् उपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगहे तु यदि साधवो न सन्ति तदेर्यापथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति ततः पठनादि विधत्ते, साधुसहावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति तथैव गमनविरहितं, न चावश्यकं श्रावकस्य न संभवतीति वाच्यं, " समणेण सावएण य अवस्स कायव्वयं हवइ जम्हा ” इत्यादिवचनप्रतिष्ठितत्वादस्य, मुखवस्त्रिकाप्रत्युपेक्षणपूर्व च सर्वत्र सामायिकं साध्वादिसमीपे विधिना । ग्राह्यमिति । ऋद्धिप्राप्तस्तु चैत्यगृहं साधुमूलं वा महद्धवैति येन लोकस्यास्था जायते, चैत्यानि साधवश्च सत्पुरुषप-10 रिग्रहेण विशेषपूज्यानि भवन्ति, पूजितपूजकत्वाल्लोकस्य, अतस्तेन गृह एव सामायिकमादाय नागन्तव्यम्, अधिकरण ॥२४३।। Jain Education in For Private & Personel Use Only Rww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy