SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Jain Education Intere + | नुसारेणैवं व्याख्या - प्रणिपतनं - प्रणिपातः सामान्येन प्रणाममात्र, स च साध्यवग्रहसूचनादत्र साधूनामेव द्रष्टव्यः, | तस्मादनन्तरं साधुवन्दनं कृत्वा सामायिकं करोति, यहा प्रणिपातानन्तरमित्यनेनार्हचैत्यासन्नविधिरनिहितः, साधून् | वन्दित्वेत्यनेन तु साध्वासन्नविधिः, यतो यत्रार्हचैत्यानि तत्र तद्दन्दनापूर्वं सामायिकं ग्राह्यं; चैत्यवन्दना तु प्रणिपातदण्डक पूर्विकेति, अनेन च चैत्यसाधुसमीपलक्षणस्थानइयानुसारेण शेषाण्यपि गृहादिस्थानानि सूचितानि, प्राग्व्याख्यापक्षे तु साधुसमीपमेव मुख्यत उक्तं, केवलमनेनैव तुलादण्डमध्यग्रहणन्यायेनाद्यन्तग्रहणमपि | बोध्यमित्यन्यदीयगाथार्थः ॥ आवश्यकचूर्ण्याद्युक्तसामाचारी स्वियम् - सामायिकं श्रावकेण कथं कार्य ?, तत्रोच्यते - श्रावको द्विविध:अनृद्धिप्राप्त ऋद्धिप्राप्तश्च तत्राद्यचैत्यगृहे साधुसमीपे पौषधशालायां गृहे वा यत्र वा विश्राम्यति पृच्छति ( तिष्ठति ) च निर्व्यापारस्तत्र करोति, चर्तुषु तु स्थानेषु नियमेन करोति - चेत्यगृहे साधुमूले पौषधशालायां गृहे वाऽऽवश्यकं कुर्वाण इति एतेषु च यदि चैत्यगृहे साधुमूले वा करोति तत्र यदि केनापि सह विवादो नास्ति यदि भयं कुतोऽपि न विद्यते यदि कस्यापि किञ्चिन्न धारयति मा तत आकर्षापकर्षो भूतां यदिवाऽधमर्णमवलोक्य न गृह्णीयात् मा For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy