________________
भेदद्वारम् गा.९४
॥२४१॥
श्रीनवबृह- । विधमुक्तं, ननु सामायिकं नाम समभावरूपं प्रागाख्यातं, सम्यक्त्वश्रुतयोश्च श्रद्धानज्ञानरूपयोः कीदृशी समभावता?
वृत्ती सामायके ||ब्रूमः, यथावस्थितश्रद्धानज्ञानरूपे हि सम्यक्त्वश्रुते, यथावस्थितं च श्रद्दधानो जानानश्च समभाव एव, विषमभाव-||
नायां तु यथावस्थितत्वमेव श्रद्धानज्ञानयो स्ति, यहा रागद्वेषविच्युतस्य यो लाभः स सामायिकं, स च सम्यक्त्व
श्रुतयोरपि सतोर्निश्चयतो भवत्येव, यदुक्तमाचाराङ्गे-"जं मोणंति पासहा तं सम्मति पासहा । जं सम्मति पासहा मतं मोणंति पासहा ॥१॥" ज्ञानेऽप्युक्तं-" तज्ज्ञानमेव न भवति यस्मिन्नदिते विभाति रागगणः । तमसः
कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥१॥” इति व्यवहारतस्त सम्यक्त्वश्रुतयोरुपचरितमेव समभावत्वमिति । 'इत्तरिय ' मित्यायुत्तराई, अत्र च ' अथवा ' प्रकारान्तरसूचनार्थः, तच्चेदं-'द्विविधं' द्विप्रकारं 'तत्' सामायिकं ज्ञेयं । ज्ञातव्यं, कथं द्विविधमित्याह-इत्वरं यावत्कथिकं च. तत्रत्वरं-परिमितकालिकं यावत् साधून नियम वा पर्युपासे इत्यादि विहितकालावधि, यावत्कथिकं चोपसर्गप्राप्तः सामायिकं करोति, म्रियमाणेनापि न मया सावद्यमासेवनीयं, उपसर्गकारिण्यपि न क्रोधवशगेन भाव्यमित्यादिरूपमिति गाथार्थः ॥
साम्प्रतं च यथा जायत इदं तथा कथ्यते
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org