________________
अभ्यसनं यच्च तथा · सर्वेषु । समस्तेषु 'चः ' पूरणे 'भूतेषु ' प्राणिषु शत्रुमित्रादिरूपेषु — समताभावश्च तुल्यतापरिणामश्च यः तत् 'सामायिक ' मिति सम्बन्धः, समो-रागद्वेषवियुक्तस्तस्याऽऽयो-लाभो ज्ञानदर्शनचारित्रसत्कः समायः स एव सामायिकं, स्वार्थ इकण, चकारो भूतव्यतिरिक्तानुक्तमणिलेष्टुकनकादिपदार्थसमुच्चयार्थः, ततः सर्वेषु भूतेषु मण्यादिषु च समताभावः सामायिकमिति गाथार्थः ॥ भेदवारमिदानीम्
सम्मत्तसुयं तह देसविरइ तिविहं गिहीण सामइयं ।
इत्तरियमावकहियं अहवा दुविहं तयं नेयं ॥ ९४ ॥ ___ सम्यक्त्वं च-तत्त्वार्थश्रद्धानरूपं श्रुतं च-श्रुतज्ञानं सम्यक्त्वश्रुतं, समाहारत्वादेकत्वनपुंसकत्वे, तथाशब्दः समुच्चये, न केवलं सम्यक्त्वश्रुतं, तथा देशविरतिः, प्राकृतत्वाल्लुप्तविभक्तिको निर्देशः, विरमणं विरतिः ।
देशस्य देशेन वा विरतिर्देशविरतिः-स्थूलप्राणातिपातादिविरतिलक्षणा, एतत् 'त्रिविधं' त्रिप्रकारं 'गृहिणां' वेश्मवतां । IN || सामायिकं' प्राग्निरूपितशब्दार्थ, अयमत्र भावार्थः-श्रावकाणां त्रिविधं सामायिक, तद्यथा-सम्यक्त्वसामायिकं श्रुतसा-|
माथिक देशविरतिसामायिकं च, यद्यपि च सर्वविरतिसामायिकमपि चतुर्थमस्ति तथाऽपि मृहिणां तरयासम्भवास्त्रि
Jain Education Int!
For Private & Personel Use Only
Www.jainelibrary.org