________________
Jain Education
पयोग उपयोगलक्षणोऽनादिनिधनः शरीरादर्थान्तरभूतः स्वयं कर्मणः कर्त्ता तत्फलोपभोगी च जीवो मया चिन्तनीयः, अजीवादिव तलक्षणाद्युपेतो, अयं चाप्रवृत्तचिन्तस्योपयोगः, प्रवृत्तचिन्तस्य त्वेवं- किमहं शुभं चिन्तयाम्यशुभं वा ?, तत्र यदाऽनाभोगादिनाऽशुभं चिन्तयति तदा मिध्यादुष्कृत दान पूर्वमनुतापगर्भमशुभं परित्यज्य शुभमेव पुनश्चिन्तयेत् | शुभचिन्तायामप्यपरापरपदार्थेषु गच्छच्चित्तं निवार्यम्, एकस्मिन्नेव वस्तुनि सुक्ष्मसूक्ष्मतरोपयोगेन धार्यमिति, करणोपयोगोऽपि एतत् चैत्यवन्दनाप्रतिक्रमणादि निरवद्यानुष्ठानं शास्त्रोक्तविधिना मया कार्य, न पुनः सावद्यव्यापाररूपम्, | अयमप्रवृत्तव्यापारस्योपयोगः, प्रवृत्तव्यापारस्य त्वहं न किञ्चित्सावद्यमाचरामि, अनुपयोगादिना सावद्याचरणेऽपि मिथ्यादुष्कृतदानपूर्वमनुतापगर्भं तत्त्यक्त्वा निरवद्यमेवानुष्ठातव्यं, तत्रापि तदुपरतये शक्तौ सत्यामभिग्रहसारं कायोत्सर्गादि विधेयमिति, शयनोपयोगस्त्वनागतो गुरुसकाशे मुखवस्त्रिका प्रत्युपेक्षणपूर्वकं संस्तारकमनुज्ञाप्य बाहूपधानेन वामपार्श्वशायिना मया शयनीयं, शयनप्रवृत्तौ तु न निसृष्टं शेते, सङ्कोचितपाणिपादस्तु यदाऽऽसितुं न शक्नोति तदा कुक्कुटीन्यायेन पादप्रसारणादि करोति, प्रत्युपेक्ष्य प्रमृज्य च स्थाने मुञ्चति, अविधिशयनादौ तु मिध्यादुष्कृतादि पूर्ववदिति, यानोपयोगस्तु युगमात्रन्यस्तदृष्टिनाऽव्याक्षिप्तचित्तेन दृष्टि पूतपदन्यासं त्रसाद्यसंसक्तमार्गेणोत्पन्ने गुर्वादि
For Private & Personal Use Only
www.jainelibrary.org