SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Jain Education यादिवधोऽधिकः स्याद्, एवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, ततः को विधिरुपभोगे ?, तत्र स्नाने तावगृह एव स्नातव्यं, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो धर्षयित्वा तानि च सर्वाणि | शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति तथा येषु पुष्पादिषु कुन्थ्वादयः सन्ति तानि परिहरति, एते च कन्दर्पादयः पञ्चातिचाराः पापोपदेशहिंस्रप्रदानप्रमादाचरितत्रतेषु दर्शिताः, अपध्यानाचरितव्रते त्वनाभोगादि - नाऽपध्यानवृत्तिरेवातिचार एतदनुसारेणानुक्तोऽपि द्रष्टव्यो, न चायमेव, किन्तु कन्दर्पादयोऽप्यनाभोगादिनैवातिचाराः, आकुट्टया तु भङ्गा एवामी, तथा च वक्ष्यति 'कंदप्पा ' इत्यादि, इमान् पञ्चातिचारान् गाथोक्तसङ्ख्याऽपेक्षया न तु सर्वथा सङ्ख्यानियमोऽयं, 'परिहरेत्' परिवर्जयेदिति गाथार्थः ॥ भङ्गारे - कंदप्पाइ उवेच्चा कुतो अइकिलिट्ठपरिणामो । पावरसुदएण गिही भंजइ एवं अविण्णाणो ॥ ९१ ॥ ‘ कन्दर्पादि ' पूर्ववर्णितातिचारपञ्चकं 'उपेत्य' आकुट्ट्या 'कुर्वन् ' विदधानः कीदृक्षः सन्नित्याह- अतिक्लिष्टः - अतिबाधितः शुभभावं प्रतीत्य परिणामः - अध्यवसायो यस्यासौ अतिक्लिष्टपरिणामः, व्रतनिरपेक्षाध्यवसाय For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy