________________
॥२३८॥
श्रीनव०बृहः क्रियायुक्तस्तस्य भावः कौकुच्यम्-अनेकप्रकारा मुखनयनादिविकारपूर्विका परिहासादिजनिका चेष्टा, भाण्डानामिव अतिचाराः वृत्तौ अनर्थदण्डे
विडम्बनक्रियेत्यर्थः अत्र सामाचारी-तादृशानि भणितुं न कल्पन्ते यादृशैलॊकस्य हास उत्पद्यते, एवं गत्या गन्त स्थानेन स्थातुमिति, एतौ च कन्दर्पकौकुच्याख्यावतिचारौ प्रमादाचरितव्रतस्यावसेयौ, प्रमादरूपत्वादनयोः, चरमश्चोपभोगातिरेको वक्ष्यमाणोऽस्यैवातिचारो, विषयात्मकत्वादिति । तथा मुखमस्यास्तीति मुखरस्तावः कर्म वा । मौखर्य-धाष्टर्यप्रायमसत्यासम्बद्धप्रलापित्वं, अयं च पापोपदेशवतातिचारः, मौखर्ये सति पापोपदेशसंभवात, तथाऽधिक्रियते-नियुज्यते नरकादिष्वनेनात्मेत्यधिकरणं-वास्युदूखलशिलापुत्रकगोधमयन्त्रकादि संयुतम्-अर्थक्रियाकरणसमर्थं तच्च तदधिकरणं च संयुताधिकरणं 'चः' समुच्चये, अत्र च सामाचारी-श्रावकेण न संयुक्तानि । शकटादीनि धार्याणि, अयं च हिंस्रप्रदानव्रतस्यातिचारः, तथा ' उपभोगे' सकृद्रोग्ये पुष्पताम्बूलादिरूपे अस्य । चोपलक्षणत्वात्परिभोगे च-पुनः पुनौग्ये वस्त्रवेश्मादिके, यहोपभुज्यत इत्युपभोग इति व्युत्पत्त्या सामान्येनैव ।
॥२८॥ यदुपभोग्य वस्तु तदुपभोगशब्देन विवक्षितं तस्मिन् 'अतिरेके । आधिक्यं, इहापि सामाचारी-उपभोगातिरितानि यदि तैलामलकानि बहूनि गृह्णाति तदा तल्लोल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततः पूतरकाप्का
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org