SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 47 समागत्य तदन्तिकं पतित्वा पादयोः प्रलपितुमारेभे यावत्तावदूचे चक्रपाणिना-भ्रातः! मा प्रलापीर्यतः-" अन्यथा स्यान्महामेरुरन्यथा स्यादिनोद्गमः । अन्यथा स्यात्रिलोकीयं, नान्यथा जिनभाषितम् ॥१॥" तद्यावदद्यापि बलदेवो नायाति तावत्प्रयाहि पाण्डुमथुराभिमुखं, मा महिनाशवीक्षणोत्पन्नकोपः सोऽपि भ्रातृवधमनुष्ठास्यति, गृहाण चेदं मदीयं कौस्तुभरत्नं दर्शनीयं प्रत्ययहेतोः पाण्डवानां, कथनीयं च मामकं मिथ्यादुष्कृतमित्यभिधाय संप्रेष्य चैन स्वयं नमो भगवते यादवकुलावतंसभूताय श्रीमदरिष्ठनेमये नमः सर्वसिद्धेभ्यो नमोऽतीतानागतवर्तमानार्हयः, हा न सुन्दरं कृतं पापेन द्वैपायनेन, यदि नाम खलीकृतोऽसौ कुमारैस्तथाऽपि न निःशेषलोकक्षयकरणेनेदृशमना यचेष्टितमस्योचितं, भविष्यति ममापि कोऽयवस। ज्ञास्याम्येतच्चेष्टितस्य माहात्म्यमित्यादि विचित्रध्यानमापूरयन्नेव , Nक्षणेन प्राप्तः परासुतां, आयातोऽत्रावसरे सलिलपरिपूर्णपद्मिनीपत्रपुटकपाणिः सीरपाणिः, दृष्ट्वा मृतं मोहमुपागतः, लब्धचेतनश्च यथा स विललाप यथा च प्रणष्टविवेकः षण्मासान् यावत् स्कन्धाधिरोपितमवहदेनं यथा च सिद्धार्थदेवेन प्रतिबोधितो व्रतमादाय ब्रह्मलोककल्पं गत इत्यादि तथा सर्व सविस्तरं वक्ष्यमाणकुरङकथानकादवगन्त. व्यम् ॥ इह च ते कुमारा मद्यप्रमादरूपादनर्थदण्डाद् विनष्टास्तस्मादनर्थदण्डविरतिविधेयेति द्वारगाथाभावार्थः ॥ सम्प्रति गुणहारम् Jain Education Inteman For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy