________________
श्रीनववृह वृत्ता अन्न
र्थदण्डे
कुमार कथा
सलिलार्थ सीरपाणिः केशवोऽपि मनाक् शीतलच्छायायां व्यवस्थितः शिशिरवनमारुताप्यायितशरीर आच्छाद्यात्मानं अनर्थदण्डपीतवर्णोत्तरीयवस्त्रेण सर्वतो वामजानुन उपरि विधायेतरपादं सिषेवे निद्रासुखं, अत्रान्तरे तत्प्रदेशनिकटवर्तिना
दोष यादव|ऽऽगत्य कुतोऽपि जराकुमारेण कनकपृष्ठहरिण एष तिष्ठति तद् व्यापादयाम्येनमिति बुद्ध्या दूरवर्त्तिनैव क्षिप्त्वाऽति| तीक्ष्णशरं विद्धश्चरणतले, ततः कोऽयमज्ञातचर्ययैव मामेवं विश्रब्धसुप्तं जघान ?, न खलु पौरुषाभिमानिनः सुप्तप्रमत्तादिषु प्रहरन्ति, मयाऽपि षष्टयधिकत्रिशतसङ्ख्यसंग्रामेषु न कश्चिदज्ञातकुलशीलस्वरूपः पुरुषो विनाशित इत्यादि प्रतिपादयन् मुखमद्घाट्य यावदीक्षाञ्चके चक्रपाणिस्तावज्जराकुमारस्तदाकर्ण्य सखेदमाः किमेतन्मया व्यधायि? न भवत्येष स्वर्णपृष्ठसारङ्गः, केवलमेतद्बुद्धिविप्रलब्धेन तरुनिकरावच्छादितमूर्त्तिना मया मनुष्य एव कश्चिदेष ।। वाणेनाजन्ने, तद्गच्छामि तावदेतदन्तिकं पश्यामि कोऽयमित्यादि चिन्तयन् समागतो विष्णुसमीपं, जातं परस्परदर्शनं, कथितं जराकुमारेण स्वकुलमात्मनो वनप्रवेशकारणं च, ततो वासुदेवेन प्रसार्य बाहू एह्यह्यालिङ्ग निर्वापय । चिरकालभवद्विरहदहनदंदह्यमानमेतन्मदीयमझं स्वसङ्गमजलेन, यद्रक्षानिमित्तं च द्वादश वर्षाणि सकलसंसारसुख- ॥ २३५ ॥ । विमुखेन स्थितं वनवासदुःखमनुभवता सोऽहं हरिविधात्रा संयोजितो भवतः, ततोऽसौ बाष्पभरभार्यमाणलोचनः ।
Jan Education inte
For Private Personal use only
vniww.jainelibrary.org