SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ वेगविनिर्यदश्रुप्लवप्लवमाननयनयोर्चलयितुमारब्धो रथः, ततो भणितं वसुदेवादिभिः-वत्सौ ! व्रजतं युवाम, अस्मत्कृते । मा विनाशमन्वभूतां भवन्तौ, सर्वथा दुर्वाराऽपन्निवारणासमर्थाभ्यां न स्थेयमस्मत्पार्श्वे भवयां, युवयोर्विद्यमानयोः । पुनः संभाव्या यादववंशोन्नतिः, ततो मुशलपाणिना गदितः कृष्णो, यथा-सत्यमेतदादिशन्ति पूज्याः, इत ऊर्ध्वमत्र तिष्ठतारोवयोरेतेषामपि मरणे महदसमाधानमत एतत्कार्यमेव कालोचितं कृत्वा याव आवां, ततो दत्तं वसुदेवादीनामनशनं स्मारितं भगवता नेमिनाथेनादिष्टमणुव्रतादि कारितमहदादिपरमेष्ठिपञ्चकनमस्कारोच्चारणं विधापिता सकलसत्त्वक्षामणा क्षणमात्रेण भस्मीभूतो वसुदेवदेवकीरोहिणीभिः समं रथो, देवलोकमनुप्राप्ता वसुदे. वादयः, तौ त्वनाख्येयदुःखदोदूयमानमानसौ महता कष्टेन गतौ ततः कोशाम्बीकवनं, तत्रावोचन्नीलाम्बरं हरिःभ्रातः ! न शक्तोऽस्म्यहमितः पदमपि गन्तुं, बाढं गाढपिपासया शुष्यति मे वदनं, तिमिरवल्लरीभिरग्रतः । सर्पन्तीभिर्बाध्यते नयनयगलं, गलितामतकलानिस्स्यन्दं संपद्यते गलकरन्ध्र, वागव्यापारासमर्थतया जडतामुपयाति । रसना, ततो नातिदरवर्त्तिवटच्छायायामुपवेश्य हृषीकेशं यावज्जलमादायागच्छामि तावदप्रमत्तेन भवता स्थेयमित्यनुशिक्ष्यैनं निक्षेपक एष क्षिप्तो भवतीनां मया रक्षणीयस्तावन्मद्भाता यावदायाम्यहमनेत्यालप्य वनदेवता जगाम Jain Education Inter For Private & Personal Use Only Hjainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy