________________
श्रीनव०बृहदवृत्तौ अन र्थदण्डे
॥ २३४ ।।
पा
परायणः सर्वोऽपि तिष्ठतु येन प्रतिहन्यतेऽसौ ततो विशेषेण धर्मकर्मपरायणो लोको बभूव, | यनस्तु मृत्वोत्पेदेऽग्निकुमारेषु ततो दत्तोपयोगो भवप्रत्ययविभङ्गेन विज्ञातपूर्वभवविहितनिदान आगतो नगरीम, अपश्यच्च भयेन तपोनियमशान्तिकर्मोद्यतम शेषलोकं तत आत्मानमुपदर्श्य गतः स्वालयं, जनः पुन| स्तमनवलोकयन्नस्मदीयतपोविधानादिना प्रतिहतोऽसाविति विचिन्तयन् अतिकान्तप्रायेषु द्वादशवर्षेषु प्रमादी संवृत्तः, ततोऽसौ लब्धावकाशो विचिन्त्य तं प्रमत्तं संवर्त्तकवातेन महता बहिः स्थितमपि द्विपदादि प्रक्षिपन्नन्तः विधाय निःशेषद्वाराणि प्रदीपयामास सर्वतोदिक्कं पुरीं उत्थितोऽतिबद्दलतया श्रोत्रविवरं स्फोटयन्निव हा स्वामिन्! रक्ष रक्ष प्राणभिक्षां प्रयच्छेत्यादिरूपो जनस्य करुणः प्रलापः अत्रान्तरेऽप्रतिविधेयव्यसनोपनिपातोपस्थानदुःस्थौ । | जनार्दनसीरिणौ गतौ मातापित्रोरन्तिकं, प्रगुणीकृत्य रथमारोपयामासतुर्देव की रोहिणीसहितं वसुदेवं, यावन्न चलति स्थानाद्रथस्तावत्तुरङ्गस्थाने स्वयमेव भूत्वाऽऽकृष्य स्वप्राणेनानीतः प्रतोलीं यावत्, पाणिप्रहारेण पातयित्वा कपाटपुढं यावन्निष्काशयितुं श्ववृताते तावदाकाशस्थेन द्वीपायनसुरेण नात्र युवां मुक्त्वाऽन्यस्य कौलेयकस्यापि मोक्ष इति पूर्वमेव प्रतिपन्नं मयाऽतो गच्छतं युवाम, अनयोः पुनरत्रैव मृत्युरिति भणित्वा पश्यतेोरेवानयोरतिप्रबल शोका
Jain Education International
For Private & Personal Use Only
1959 19
द्वारकादाह, वृत्तं
॥ २३४ ॥
www.jainelibrary.org