________________
रूपैर्यत् कर्थितस्तदस्माकं क्षमस्व, क्षान्तिपरा हि मुनयो भवन्ति, तत्प्रसीदतु भवान, मुनिरुवाच-अस्माकमनपराधानामेतत्कदर्थनमेतैः कृतं तदर्शयाम्यस्य दुर्विनयस्याचिरात्फलममीषां निष्कारणवैरिणां सकलजनविनाशकरणेन वासदेवेनोक्तं-मैवं वोचः तपखिन् ।, यदि श्वा दशति तत्किं सोऽपि दष्टव्यः ?, किञ्च-यद्यमीभिरपकृतं तत्किमशेषनगर्या अपि विनाशनाय निदानकरणमुचितं ?, तत् प्रसादबुद्धिमाधाय भवद्भि. क्षम्यतामयमेकोऽपराधोऽस्माकं, द्वैपायनोऽब्रवीतू-त्वं हि सुखी न जानासि परदुःखमहमेतैः पापिष्टैरनेकधोत्प्रास्योत्प्रास्याभिहतः, तकिमते एव ममापकारिणो नापरो नगरीलोकः?. तद्गच्छतु भवान् स्वस्थानं, मया त्वेषामेवोत्प्रासना सत्या कर्त्तव्या न त क्षमणीय एषोऽपराधो, न भयो भयस्त्वया किमपि वक्तव्योऽहं, ततो निवारितोऽपि तेन कृष्णोऽवश्यंभाविभावो नान्यथा कर्तुं सुरासुरैः सेन्ट्रैरपि पार्यत इति करोतु यदस्मै रोचते त्वं कियतीः प्रार्थनाः करिष्यसीति निषिध्य-14 मानोऽपि बलदेवेन स्वार्थपरतया तं यावत् पुनः पुनर्विज्ञपयति तावदनेनोक्तं--किमेवं पुनः पुनः प्रलप्यते भवता?, युवां महापुरुषो मुक्त्वाऽन्यस्य कीटकस्यापि न मया मोक्षो विधेयः, ततो विशेषेण विलक्षीभूतोऽसौ समं बलभद्रादिलोकेन गतो नगरी, समादिदेश च पुरीजनमशेषं, यथा-उपवासादिरतः शान्तिकर्म
Jain Education inmale
For Private Personal use only
w.jainelibrary.org