SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte न हि भगवद्वचनं "पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि युक्तिभिः | ॥ १ ॥" इत्यादितुल्यं, जात्यसुवर्णवत्तापादिशुद्धत्वात्, अन्यथा अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते । जात्यं तु काञ्चनं भृत्वा, तापादिभ्यो बिभेति किम् ? || १ ||" इत्याद्युपालम्भभाजनं स्यात्, यच्चोक्तं 'संस्तीर्यमाणसंस्तीर्णयोर्नैकका| लत्वमित्यादि' तदपि बालप्रलपितप्रायं, क्रियाकालनिष्ठाकालयोः कथञ्चिदेकत्वाभ्युपगमात्, तथाहि क्रियमाणक्षणे कृतत्वमप्यस्ति, अन्यथा क्रियमाणाद्यक्षण इवान्त्यक्षणेऽपि कृतत्वस्याविद्यमानत्वात्कुतोऽयमिति प्रत्ययो नोत्पद्येत, अस्ति च प्रत्ययस्तथाऽनुभूयमानत्वाद्, योऽपि भगवद्वचनं मिथ्येत्याद्यनुमानप्रयोगोऽभिहितस्तत्रापि प्रतिज्ञापदयोर्विरोधः, तथाहि| भगवद्वचनं चेन्न मिथ्या मिथ्या चेन्न भगवद्वचनं, समग्रैश्वर्ययुक्तो हि न मिथ्या वक्तीति प्रतीतमेतत्, तत्कारणाभावाच्च, मि| ध्याभणने हि रागादयः कारणं, ते च तस्य न सन्ति, यदुक्तम्- "रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दो| षास्तस्यानृतकारणं किं स्यात् ? ॥१॥” इति, अत एवासिद्धोऽपि हेतुः प्रत्यक्षविरुद्धार्थाभिधायित्वेन भगवद्वचनस्य कदाऽप्यप्रतीतेः, विरुद्धाव्यभिचारी चायं हेतुः तथाहि - एतदपि शक्यते वक्तुं क्रियमाणं कृतमित्यादि भगवद्दचनं सत्यं, सद्भूतार्थप्रतिपादकत्वात् सक जनप्रतीतपृथ्वी काठिन्ये कठिना पृथ्वीत्यादिवाक्यवत, यच्चोक्तं ' न चायमसिडो हेतु - For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy