SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ नवपद-वृत्तिन्मू.देव. वृ. यशो. ॥९॥ Jain Education परिपूर्णसंस्तार के शयित्वा पीडाविगमं विधाय क्षणान्तरे स्वस्थशरीरस्तपोधनानाहूय पप्रच्छ किं भो ! भवद्भिरर्द्धसंस्तीर्णोऽपि संस्तारकः संस्तीर्ण इति भणितः, तैरवाचि - "कज्जमाणे कडे चलमाणे चलिए उईरिज्जमाणे उईरिए निज्जरिज्जमाणे निज्जिपणे " इत्यादिभगवद्वचनप्रामाण्यात्, एतदाकर्ण्य जमालिर्भवितव्यतावशेन तत्क्षणोपजातमिध्यात्वकर्मोदयो भगवान् तत्र भ्रान्त इत्यवदत् यतो न खलु संस्तीर्यमाणसंस्तीर्णयोरेककालत्वं क्रियाकालनिष्ठाकालयोरत्यन्तभेदात्, अतो भगवद्दचनं मिथ्येति प्रतिजानीमः, प्रयोगश्चात्र क्रियमाणं कृतमित्याद्यर्थप्रतिपादकं भगवद्वचनं मिथ्या, प्रत्यक्षविरुद्धार्थाभिधायित्वाद्, अश्रावणः शब्द इति प्रतिज्ञावचनवत्, न चायमसिद्धो हेतु:, अर्द्धसंस्तीपूर्णसंस्तारकस्यासंस्तीर्णत्वदर्शनेनान्यत्रापि क्रियमाणत्वादिधर्मेण प्रत्यक्षसिद्धेन कृतत्वादिधर्मस्य दूरतोऽपनीतत्वात् नाप्यनैकान्तिकः सपक्ष एव भावात् नापि विरुद्ध विपक्षात् सत्यलक्षणात्सर्वथा व्यावृत्तेः, अतः स्थितमेतत् क्रियमाणं कृतमित्यादि । भगवद्वचनं मिथ्येति, एवमुक्ताश्च ते साधवः केचिदेवमेवेति प्रतिपन्नाः, अपरे त्ववगतभगवद्वचनयथावस्थितार्थाः | सम्यग्बोधवन्त एवमभिदधुर्यथा - जमालिसूरे ! नैतद् युक्तमुक्तं भवता, न खलु भगवानसमीक्ष्य किञ्चिद्वक्ति, समुत्यन्नकेवलत्वेन भगवतः सततोपयोगत्वात् न च वयं भगवद्वचनं श्रुतमात्रग्राहितयाऽङ्गीकृतवन्तः किन्तु युक्तया विचार्य, For Private & Personal Use Only मतिभेदे जमालि चरितम् ६ ॥ ९ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy