SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स्रवाह्यां शिबिकामारुह्य महाविभूत्या भगवन्तमुपतस्थौ, भगवता च जमालिकुमारः पञ्चशतराजपुत्रपरिवारो दीक्षितः, - तत्पत्नी च सुदर्शना सहस्रपरिवारा प्रवाजिता, द्वयोरपि सामायिकायेकादशाङ्गपर्यन्ता श्रुतसम्पत्सम्पन्ना, कालेन । गीतार्थतायां जातायां जमालिराचार्यों विहितः स च कदाचिद्भगवन्तं महावीरमभिवन्द्यैवमवोचत्-यथाऽहमभिलषामि भगवदनुज्ञया पञ्चभिरनगारशतैः परिवृतो ग्रामनगरादिषु विहर्तु, ततो भगवानेतद्वचनमाकर्ण्य भाविदोषावलोकनेन , तूष्णीं व्यवस्थितः, पुनर्भणिते च यावन्न किञ्चिदुत्तरमलभत ततो भगवन्तमभिवन्द्य बहुशालकचैत्यान्निर्गत्य पञ्च॥ शतसाधुपरिवारो ग्रामानुग्रामं विहर्तुमारेभे, अन्यदा श्रावस्त्या नगर्या बहिस्तिन्दुकोद्यानवर्तिनि कोष्ठकचैत्ये समागतः, तत्र च तस्य प्रान्ताहारादिभिर्गाढतरो रोग उदपादि, ततः श्रमणानाहूय भणितवान् यथा दाघज्वरेण विह्वलीकृतं मे शरीरं न शक्नोमि क्षणमप्युपविष्टः स्थातुमतो यदि यूयं मद्योग्यं शय्यासंस्तारकं कुरुथ तदा शयित्वा पीडायापनां करोमि तैश्वेच्छामः कर्त्तमेवमित्यभिधाय संस्तरीतमारब्धं, स च गाढवेदनया दोदूयमानतनुः पुनरवादीद्-यथा भोः श्रमणाः! संस्तीर्णं न वा ? इति, ते ऊचुः-संस्तीणं, ततोऽसौ यावदीक्षाञ्चके तावदसंस्तीर्णमेव संस्तारकं विलोक्य बाढं कषायितचित्तोऽपि तदा साबाधत्वान्न किञ्चिदुक्तवान्, केवलं संस्तणि Jain Education inte For Private & Personal Use Only Www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy