________________
नवपदवृत्तिम्मू. देव. वृ. यशो.
॥ ८ ॥
Jain Education Inter
तावदत्रान्तरे पूर्वप्रेषितः सेवकः सज्जीकृतचतुर्घण्टरथो व्यजिज्ञपत्, यथा कुमार ! सम्पादितत्वदादेशोऽहमेष तिष्ठामि, कुमारस्तद्वचनमाकर्ण्य त्वरिततरचरणन्यासं गृहान्निष्क्रम्य तमेव रथमारुह्योपरि धार्यमाणप्रवरातपत्रो धनुष्काण्डखङ्गफ|लकादिनानाविधायुधसहायैः पुरतः पृष्ठतो धावद्भिः पदातिनिवहैरनुगम्यमानः क्षत्रिय कुण्डग्राममध्ये बहुशालक चैत्याभिमुखः कियन्तमपि भूभाग मुल्लङ्घ्याग्रतो नातिदूरवर्त्तिसमवसरणमवलोक्य नियन्त्रिततुरगो रथादवतीर्य परित्यक्तपुष्पताम्बूलायुधोपानदादिपदार्थसार्थ एकसाटकमुत्तरासङ्गं विधाय ललाटतटघटितकरकुड्मलः समवसरणभुत्रमुपसृत्य भक्तिभरनिर्भरान्तःकरणो भगवन्तं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च यथोचितस्थानोपविष्टोऽमृतवृष्टिमिव समस्त| शरीरानन्ददायिनीं भगवद्देशनामाकर्ण्य संसारभयोत्त्रस्तचेता विधिना स्वामिनो जिज्ञपत्, यथा-भगवन् ! पितृभ्यां गृहि - ण्या चानुज्ञातो युष्मदन्तिके ग्रहीतुमिच्छामि प्रव्रज्यां, भगवता तु देवानुप्रिय ! मा प्रतिबन्धं विधत्स्वेत्युक्तः पुनस्त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च भगवन्तं समवसरणान्निष्क्रम्य तमेव रथमारुह्य तथैव स्वनगरमध्येन निजगृहं गत्वा पितरावपृच्छत्, ताभ्यां च कथंकथञ्चिदनुमतो गृहिणीसकाशं समागात, तया च प्रतिपन्नदीक्षाऽभिलाषया सहैव | स्नातविलिप्तगृहीतालङ्कारो जिनभवनेषु विरचितमहापूजो दीनानाथकृपणादिलोकेभ्यो यथेच्छं दानं ददत् पुरुषसह -
For Private & Personal Use Only
मतिभेदे जमालि चरितम् ६
॥ ८ ॥
w.jainelibrary.org